पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/३२९

एतत् पृष्ठम् परिष्कृतम् अस्ति
३२७
अवतचर्या


गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य
ब्रह्माध्यानाभ्यसनविधिना योगनिद्रां गतस्य ।
किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काः
कंडूयन्ते जरठहरिणास्वाङ्गमङ्गे मदीये ॥ ९८

 व्या.- अथ निर्वृतिप्रकारमाह - गङ्गेति.- गङ्गायाः सुरनधाः - तीरे कूले - नि. 'कूलं रोधश्च तीरं च प्रतीरं च सटं त्रिष्वि' त्यमरः - तीरग्रहणं तद्गतशीतत्वपावित्र्त्यादिसिद्ध्यर्थ । हिम- गिरेश्शीतनगस्य - शिलाया: पाषाणस्य उपरि - बद्धं पद्मासनं येन तस्य ! किंच । ब्रह्मणः - ध्यानमुपासनं - तस्य अभ्यसनमभ्यासः -- तस्य विधिः विधानं - तेन - नि- 'विधिर्विधाने दैवेऽपी'त्यमरः । योगनिद्रां । गतस्य प्राप्तस्य । योगिनः मम । तै स्सुदिवसैः पुण्य - दिनैः । भाज्यं किं । यत्र ते। जरठहरिणाः वृद्धकुरङ्गाः। निर्वि - शङ्काः निर्भीकास्सन्तः। स्वाङ्गं स्वशरीरं । मदीये अङ्गे शरीरे । कण्डू यन्ते । तैर्भाव्यं किमित्यभिप्रायः ; एवं च ग्रामनिवासं त्यक्त्वा गङ्गा तीरे हिमवत्पर्वतपाषाणोपरिपद्मासनासनवर्ती ब्रह्मध्यानाभ्यासविधा- नेन योगनिद्रां गतस्सन्नहं निर्विशङ्कैः जरठहरिणै स्साकं यदा स्थास्ये. तदा मे सुदिवसाजायन्त इत्यभिप्रायः ।।

पाणिः पात्रं पवित्रं भ्रमणपरिगतं भैक्षमक्षय्यमन्नं
विस्तीर्णं वस्त्रमाशा दशक मचपलं तल्पगस्वल्पमुर्वी ।
येषां निस्सङ्गताङ्गीकरणपरिणतस्वान्तसन्तोषिण स्ते
धन्या संन्यस्तदैन्यव्यतिकरनिकराः कर्म निर्मूलयन्ति ।।९९.