पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१
मानशोर्यपद्धतिः

सिंहो जम्बुक भंकपागतमपि त्यक्त्या निहन्ति द्विपं
सर्वः कृच्छ्रगतोऽपि वाञ्छति जन स्सत्वानुरूपं फलम् ॥२३॥

 व्या. क्षुद्रजन्तुस्तु नैव मिति उक्तमेवार्थं भङ्ग्यन्तर्रे - णाह-स्वल्षेति.-श्वा शुनकः । स्वल्पयोः लेशमात्रयोः - स्नायु चसयोः - स्नायुर्वस्नसाख्यनाडीभेदः - वसा मेदः - तयो रव सेकेन मेळनेन • मलिनं मलदूषितमपि - नि-,वस्नसा स्रायुः स्त्रियां' - 'हुन्मेदस्तु वपावसे' त्यमरः। निर्मांसं मांसलेशशून्य मपि । गोः पशोः -नि-

" स्वर्गेषुपशुवाग्वज्रदिडनेत्रघृणिभूजले ।
लक्ष्यदृष्ट्या स्त्रियां पुंसि गौः" इत्यमरः ॥

अस्थि कीकसं । लब्ध्वा । परितोष मेति संतुष्यति। तच्च गवास्थि तु। तस्य शुनः। क्षुधा * 'आपं चैव हलन्ताना मिति वध नाट्टाप - तस्याः शान्तये क्षुन्निवारणाय । न पर्याप्तं न भवती त्यर्थः - अस्ति र्भवन्तीपरोऽप्रयुज्यमानोऽध्यस्तीति भाष्यकारवच नात् - भवन्तीति लटः पूर्वाचार्याणां संज्ञा - नीचजन्तुरिति भावः। सिंहस्तु। अङ्कं समीपमागत मपि - समीपवर्तिनम पीत्यर्थः - नि-अङ्कस्समीप उत्सङ्गे चिह्न स्थानापवादयो रिति विश्वः। जम्बुकं क्रोष्टारम् । त्यक्त्वा अनादृत्यालक्ष्यीकृत्येति यावत्। द्विषं गज मेव दूरस्थमपीति भावः। निहन्ति विदारयति तथा हि - कृच्छ्रगतोऽप्यतिसंकटस्थोऽपि। सर्वोऽशेषो जनः । सत्त्वानुरूपं स्वशक्त्यनुगुणं। फलं लाभं वाञ्छति ; न तु दुर्बलः प्रकृष्टफलकाङ्क्षी प्रबलो निकृष्टलाभकाङ्क्षी च भवति । अतः