पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/३३१

एतत् पृष्ठम् परिष्कृतम् अस्ति
३२९
अवधूतचर्या


प्रसृतिस्तौ युतावञ्जलिः पुमानि' त्यमरः। युष्माकं - सङ्गस्य योगस्य - वशेन अधीनेन - उपजातं यत्सुकृतं - तेन - स्फारं विस्तारं स्फुरत् निर्मलं च यद् ज्ञान - तेन - अपास्तः दूरतस्त्यक्तः - समस्त - मोहमहिमा पुत्रमित्रकलत्राद्यभिनिवेशाज्ञानातिशयस्सन् अहं । परे ब्रह्मणि सचिदानन्दस्वरूपिणि निर्विकारे निष्कलङ्के निरञ्जने ब्रह्मणि लीये - एवं च दारैषण वित्तैषणा पुत्रैषण रहित स्सन् चिदा- नन्दस्वरूपः सन् विदेहकैवल्यपर्यन्तं जीवन्मुक्त स्सन् अहं वर्ते इत्याशय: ॥

॥ वैराग्यशतके अवधूतचर्या संपूर्णा ।।


इति श्रीभर्तृहरियोगीद्रविरचित सुभाषितत्रिशती
॥संपूर्णा ॥

printed by V. Ramaswamy Sastralu & Sons. It Vavilla' Press. Madras-29.