पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
३२
नीतिशतके

श्वसिंहदृष्टान्तेन नीचानीचवस्तुपरिहारपरिग्रहतत्परेण भवितव्य मायुष्मतेति भावः ॥ वृत्तं पूर्ववत् ॥

लांगूलचालन मधश्चरणावधातं
भूमौ निपत्य वदनोदरदर्शनञ्च ।
श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु
धीरं विलोकयति चाटुशतैश्व भुंक्ते ॥ २४ ॥

 व्या.-अथ क्षुद्रजन्तो श्रेष्टाविशेष माह - लाङ्गलेति.-श्वा सारमेयः। लाङ्गूलचालनं पुच्छविवर्तनम् । अधः भूतले चरणावघातं पादेन विदारणं च। भूमौ निपत्य स्वयमेव पतित्वा। वद- नोदरदर्शनं वक्रकुक्षि प्रदर्शनं च। पिण्डदस्य पुरस्तादिति शेषः । कुरुते निजनीचचेष्टामाविष्कुरुत इत्यर्थः। पुमान गौः पुंगवो वृषभः - विशेषणसमासः ' गो रतद्धितलुको' ति समासान्तष्टच्- स एव पुंगवः श्रेष्ठ इत्यर्थः - नि.---' श्रेष्ठोक्षाणौ तु पुंगवा विति वैजयन्ती - गजपुंगवो गजेन्द्र स्तु। धीरं गम्भीरम् । विलोक- यति पश्यति - पिण्डदसन्निधाविति भावः। अथ चाटुशतैरनेक- प्रियोक्तिभिः - अनूनवाक्यैश्च वा। भुङ्क्ते अभ्यवहरति - गुडतण्डु लादिकमितिशेषः * “भुजोऽनवन' इत्यात्मने पदम् । इमावेव नीचानीचजनयोः दृष्टान्ताविति भावः ॥

 वसन्ततिलकावृत्तम् - लक्षणं तूक्तम् ॥

परिवर्तिनि संसार मृतः को वा न जायते ।
स जातो येन जातेन याति वंशस्समुन्नतिम् ॥ २५ ॥