पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
३३
मानशौर्यपद्धतिः

 व्या.-अथ मानशौर्यसंपन्नतया वंशवर्धनस्यैव जनस्य सत्ता लाभो न त्वन्यस्येत्याह----परिवर्तिनीति.--परिवर्तिनि धर्माधर्मवशा पौन: पुन्येन वा वर्तमान । संसारे जरामरणरूपे संसारचक्रे । को वा पुमान् । मृतः प्रेतः । न जायते न भवतीत्यु प्त न्नो वा न भवतीति शेषः । यद्वा को वा न मृताः को वा न जाअयते नोत्पद्यते - सर्वोऽप्युत्पन्नो मृतश्च भवत्येवेत्यर्थः - " जातस्य हि ध्रुवो मृत्युः ध्रुवं जन्म मृतस्य चे"ति भगवद्वचनादिति भावः। ततः किमत आह। स पुमान। जात उत्पन्नो जन्मलाभवानिति यावत् । कोऽसवित्यत आह । येन जातेनोत्पन्नेन पुंसा। वंशोऽन्ववायः समुन्नति महोन्नत्यम्। याति प्राप्नोति ; वंशोद्धारको यः पुमान स एव जन्मलाभवानेवभूतत्वं च मानशौर्यसंपन्नस्यैव न त्वन्यस्य । अतः किमन्यैरजागळस्तनवदुत्पन्नै- र्मशकवद्विनष्टैश्चेति भावः ।।

 आनुष्टुभं वृत्तम् ॥

कुसुमस्तबकस्येप द्वंयी वृत्त्तिर्मनस्विनः ।
मूर्ध्नि वा सर्वलोकस्य शीर्यते वन एव वा॥ २६ ॥

 व्या.-इत्थं भूतस्य पुरुषस्य व्यापारमाह - कुसुमेति ॥ कुसुमस्तबकस्येव पुष्पगुच्छस्यवेत्येकं पदम् । मनस्विनो धीरस्य । मानशौर्यशालिनः पुंस इत्यर्थः । द्वयी द्विविधा । वृत्तिाव्यापार:- द्वे गती हीति पाठे स्पष्टोऽर्थः - तृतीया तु न संभवतीत्यर्थः ; किं तद्वृत्तिद्वयमित्यत आह :-सर्वलोकस्य सर्वेषां जनानामि- त्यर्थः । मूर्ध्नि शिरस्युनतस्थाने च। स्थीयत एवेति शेषः । अथवा वन एवारण्ये । शीर्यते जीयते वा - भावे लट् । एवमुभयी