पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/४६

एतत् पृष्ठम् परिष्कृतम् अस्ति
४४
नीतिशतके

दानं भोगो नाशस्तिस्रो गतयो भवन्ति वितस्य ।
यो न ददाति न भुंक्ते तस्य तृतीया गतिर्भवति ॥ ३५ ॥

 व्या.----अथ वित्तस्योत्तमादिभेदेन त्रैविध्यमाह - दान मिति.---दानं सत्पात्रत्यागः । भोगः स्रक्चन्दनादिद्वाराऽनुभवः । नाशः दानधर्माद्यभावे श्वोरादिना विलयश्च - तदुक्तम्-

"चत्वारो धनदायादा धर्माग्निनृपतस्कराः ।
तेषां ज्येष्ठावमानेन त्रयः कुप्यन्ति सोदराः ॥"

इति एवमुत्तममध्यमाधमभेदन वित्तस्य । गतयो गमनापायाः भवन्ति; तत्र यः पुमान् । न ददाति अर्थिभ्यो न प्रयच्छति वित्त - मिति शेषः । अथवा न भुङ्क्ते नानुभवति। तस्य दानभोगाभ्यां वित्तव्ययमकुर्वतः पुरुषस्य संबन्धिनो वित्तस्यति शेषः। तृतीया गतिर्नाशावस्था भवति - सा त्वत्यन्तकटेत्यर्थः । अयमत्र निष्कृष्टोऽर्थः-् वितस्य दानेन गतिरुत्तमा। आत्मभोगेन मध्यमा। चोरादिना नाशगतिरधमेति ; अतो दानशौण्डनैव भवितव्यं धनाढ्येनति- भावः ॥ आर्याभेदः ।।

मणिश्शाणॊल्लीढः समरविजयी हेतिदळितो
मदक्षीणो नागः शरदि सरिदाश्यानपुलिना।
कलाशेषश्चन्द्रः सुरतमृदिता बालवनिता
तनिम्ना शोभन्ते गळितविभवाश्चार्थिषु नराः ॥ ३६ ॥

 व्या.---अथ दानशीलस्य वित्तव्ययजनिततनुत्वमपि शोभा- वहमेवेत्याह - माणिरिति-शाणश्शलोत्तेजनसाधनोपलविशेषः - तेनो-