पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
४५
अर्थपद्धतिः

ल्लीढः संघृष्ठो। मणिश्च । हेतिदलितः शस्वक्षतः समरविजयी रण. शूरश्च * “जिदृक्षी' त्यादिना इनिः - नि-’हेतिश्शस्त्रे तु नृस्ति- यो' रिति केशवः। मदेन दानवर्षेण । परिक्षीणः कृशो। नागश्च - नि.-"प्रहाम्रा हि गजा नागा" इति वैजयन्ती। शरदि शरत्काले - आश्यानानि ईषच्छु'काणि • पुलिनानि सैकतानि - यस्यास्सा। सरित् नदी च संयोगादेरातोधातोर्यण्वतो' निष्ठानत्वं । कलाशेषः षोडशांशमात्रावशिष्ट श्चन्द्रश्च - नि.-'कळा तु षोडशो भाग' इत्यमरः - 'प्रथमां पिबते वह्नि' रित्यादीतिहासक्रमेणेतरकलाना- मग्न्यादिदेवैर्गिळितत्वादिति भावः। सुरतेन रतिरणेन - मृदिता विवलीकृता । बालवनिता मुग्धाङ्गना च - 'जारवनिते'ति पाठे वेश्या- घोच्यते। तथा । अर्थिषु विषये - गळितविभवा व्यपगतार्थसंपदः . निश्शेषमर्थिसात्कृतधना इत्यर्थः - नि.-." अर्थ रै विभवा अपी". त्यमरः । नरा दातृजनाश्च! तनिम्ना तनुत्वेनैव * पृथ्वादित्वादिम निच् । शोभन्ते - एवंभूततनुत्वस्यैव शोभाहेतुत्वादिति भावः ।।

 अत्र प्रस्तुतानां नराणां च सामस्त्येन शोभारूपतुल्यधर्मेणो- पम्यस्य गम्यमानत्वाद्दीपकालंकारः॥

"प्रस्तुतानां तथाऽन्येषां सामस्त्ये तुल्यधर्मतः ।
औपम्यं गम्यते यत्र दीपकं तन्निगद्यते"॥


इति लक्षणात् ।। शिखरिणीवृत्तम् ॥

परिक्षीणः कश्चित् स्पृहयति यवानां प्रसृतये
स पश्चात्सम्पूर्ण कलयति धरित्रीं तृणसनाम् ।