पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/५४

एतत् पृष्ठम् परिष्कृतम् अस्ति
५२
नीतिशतके

एव - "दुर्जनं दूरतस्त्यजे"दिति न्यायादिति भावः*'मेघर्तिभयेषु कृष' इति खश - खशि 'अरुर्द्विष दि' त्यादिना मुमागमः ॥ अत्र बिम्बप्रतिबिम्बन्यायेन धर्मधर्मिणोर्वाक्यद्वये पृथङ्नि- र्देशादृष्टान्तालंकारः --

"बिम्बानुबिम्बन्यायेन निर्देशो धर्मर्मिणोः ।
दृष्टान्तालंकृतिर्ज्ञेया भिन्नवाक्यार्थसंश्रया ॥"

.इति लक्षणात् । वृत्तमानुष्टुभम् ।।

जाड यं हीमति गण्यते व्रतशुचौ दंभः शुचौ कैतवं
शूरे निघृणता मुनौ विमतिता दैन्यं प्रियालापिनि ।
तेजस्विन्यवलिप्तता मुखरता वक्तव्यशक्तिस्थिरे
तत्को नाम गुणो भवेत्सगुणिनां यो दुर्जनैनाङ्कितः ॥

 व्या..---अथास्य सर्वदूषकत्वमाह - जाड्यमिति.---हीमति लज्जावति पुंसि। जाड्यं मान्द्यं * 'गुणवचनगाह्मणादिभ्यः कर्मणि चे 'ति व्यञ् प्रत्ययः । गण्यते संख्यायते - दुर्जनैरिति शेषः - न तु जुगुप्सितकर्माचरणपराङुखत्वम् । व्रतॅस्तपश्चान्द्रायणादिनियमैः - शुचौ शुद्धे । दम्भो धर्मध्वजत्वम् गण्यते - न त्वनुष्ठातृत्वम्। शुचौ स्वभावादेव बाह्यान्तरशुद्धे। कैतवं कपटं। गण्यते - न तु पारमार्थि- कत्वं । शूरे। निर्घृणता दयाराहित्यं । गण्यते - न तु विक्रान्तत्वं मुनौ मननशीले विमतिता बुद्धिहैन्यं गण्यते न त्वात्मैक्यानुसंधान तत्परत्वं प्रियालापिनि मधुरवादिनि - दैन्यं गण्यते - न तु श्रव- णानन्दकरत्वं । तेजः प्रागल्भ्यं - प्रभाविशेषो वा तद्वत्यवलिप्तता