पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/६

पुटमेतत् सुपुष्टितम्
नीतिशतके

"स्वबोधेनान्यबोधेच्छा बोधरूपतयात्मनः ।
न दीपस्यान्यदीपेच्छा यथा स्वात्मप्रकाशने ॥"

इति; तथा शान्ताय अविद्यातत्कार्यसम्बन्धशून्यत्वात् प्रसन्नाय - "निष्कळं निष्क्रियं शान्त"मित्यादिश्रुतेः । तेजसे ज्योतीरूपाय । ब्रह्मणे । नमः प्रह्वीभावः । “ नमःस्वस्ती"त्यादिना चतुर्थी ।।

 अत्र “मगळादीनि मङ्गळमध्यानि मङ्गळान्तानि शास्त्राणि प्रथन्ते। वीरपुरुषकाण्यायुष्मत्पुरुषकाणि च भवन्ति । अध्येतारश्च प्रवक्तारो भवन्ती"ति भगवद्भाष्यकारवचनप्रामाण्यात् । "आशी- र्नमस्क्रियावस्तुनिर्देशोवाऽपि तन्मुख"मित्यादि दण्डिवचनाञ्चादौ नमस्काररूप मन्ते परब्रह्मस्मरणलक्षणं च। मध्ये तदुभयात्मकं च मङ्गळमाचरितमित्यवगन्तव्यम् ; “अथ शब्दानुशासन"मि- त्यादौ सर्वत्र शास्त्रारम्भे मङ्गळार्थत्वेनाथशब्दप्रयोगदर्शनात् । तस्य तदर्थकत्वं च ; नि - "मङ्गळानन्तरारम्भप्रश्नकात्स्नर्थेष्वथो अथे" त्यभिधानात् ;

" ओंकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।
कण्ठं भित्त्वा विनिर्यातौ तेन माङ्गळिकावुभौ ॥"

इति स्मरणाच्च ; तच्च निर्विघ्नं प्रारिप्सितपरिसमाप्तिकामेनावश्यं कर्त- व्यम्। “परिसमाप्तिकामो मङ्गळमाचरे "दित्यनुमितश्रुतिबोधित- कर्तव्यताकत्वात् ; अनुमानं च---मङ्गळं वेदबोधितकर्तव्यताकम- लौकिकाविगीतशिष्टाचारविषयत्वात्। दर्शाद्याचारवदित्यन्वयव्यति- रेकाभ्याम् । तस्य कारणत्वानिश्चयात् कथ मवश्यकर्तव्यताकत्वम् ? तथा हि। शबरभाष्यादौ कृतेऽपि मङ्गळे समाप्तेरजातत्वात् ।