पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/६४

एतत् पृष्ठम् परिष्कृतम् अस्ति
६२
नीतिशतके

प्रकृतिसिद्धं स्वभावसिद्धं हि - नि-संसिद्धिप्रकृती समे' स्वरूपं च स्वभावश्च निसर्गचे'त्यमरः । द्रुतविलम्बितवृत्तम् - लक्षणं तूक्तम् ।।

करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणयिता
मुखे सत्या वाणी विजयि भुजयोर्वीर्यमतुलम् ।
हृदि स्वच्छावृत्तिः श्रुतमधिगतं च श्रवणयो-
र्चिनाप्यैश्वर्येग प्रकृतिनहतां मण्डनभिदम् ॥ ५४ ॥

 व्या.- अथैषां प्रसिद्धविलक्षणमण्डनसंपत्तिमाह - कर इति-करे हस्ते। श्लाघ्यस्सकललोकप्रशस्तस्त्यागो दानम् । मण्डनं । न तु कङ्कणं - 'दानेन पाणिर्न तु कङ्कणेने 'ति स्वेनैवाने वक्ष्यमाण- त्वात् । शिरसि गुरुपादयोः। प्रणयिता अभिवादनतात्पर्यम् । मण्डनं - न तु मणिहिरण्मयकोटीरादिः। मुखे वके। सत्या वाणी सूनृतभा- षणम् । मण्डनं - न तु ताम्बूलचवणादि। भुजयो-रतुलं निरुपमानम् - विजयि जयशीलं च । जिदृक्षी 'त्यादिना इनिः। वीर्य बलम्। मण्डन - न तु केयूरादि । हृद्यन्तर्ङ्गे । स्वच्छा वृत्तिः निष्कलङ्कष्या- पारो मण्डनं - न तु हाररुचकादि - हृच्छब्दस्य वक्षस्थलवाचकत्व- मपि संभवतीति कृत्वा अभेदेन निर्देशः। श्रवणयोः। कर्णयोरधि- गतं श्रुतं शास्त्रमेव - नि.-'श्रुतं शात्रावधृतयो रिति विश्वः । मण्डनं - न तु कुण्डले - ' श्रोत्रं श्रतेनैव न कुण्डलेने ति वक्ष्यति। इदं पूर्वोक्तदानादिकं सर्वमैश्वर्येण धनरत्नसंपत्त्या। विनापि * 'पृथग्विने' त्यादिना विकल्पात्ततीया। प्रकृत्या स्वभावेन। महतां महात्मनां - सौजन्यसंपन्नानामित्यर्थः * 'प्रकृत्यादिभ्यस्तृतीये 'ति