पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/७४

एतत् पृष्ठम् परिष्कृतम् अस्ति
७२
नीतिशतके

 व्या.----अथैषां मुख्यमण्डनसंपत्तिमाह - श्रोत्रमिति.-- करुणापराणां दयाळनां - परोपकारिणामित्यर्थः । श्रोत्रं कर्णः - नि । 'कर्णशब्दग्रहौ श्रोत्र'मित्यमरः । श्रुतेन धर्मशास्वश्रवणेनैव - विभाति प्रकाशते। कुण्डलेन सुवर्णमणिमयकर्णभूषणेन। न तु विभाति ; पाणिर्हस्तः । दानेन सत्पात्रत्यागेन । विभाति । कङ्कगेन कनकवल- येन न तु विभाति ; कायो देहः । परोपकारेण परेषां हिताचरणेन । विभाति ; चन्दनेन कस्तूरीघनसारविमिश्रितपटीरपङ्कलेपेन तु न विभाति ; महात्मनां श्रवणादिकमेव स्वाभाविक मण्डनं न त्वन्यत् । तस्य नश्वरत्वादिति भावः ॥  वृत्तमुपजातिः ॥

पद्माकरं दिनकरो विकचं करोति
चन्द्रो विकासयति कैरवचक्रवालम् ।
नाभ्यर्थितो जलधरोऽपि जलं ददाति
सन्तः स्वयं परहिते विहिताभियोगाः ॥ ६४ ॥

 व्या.----यदुक्त'मनर्थितास्सत्पुरुषा' इत्यादि तदेव प्रपञ्च- यति - पद्माकरमिति-~-दिन दिवसं करोतीति दिनकरस्सूर्यः कृञो. हेत्वित्यादिना टप्रत्ययः। अभ्यर्थितो न भवतीति नाभ्यर्थितः - अयाचितम्सन्नित्यर्थः नशब्दस्य सुप्सुपेति समासः। पद्माकरं पद्मवनं । विकघं विकसितं । करोति - नि। 'प्रफुल्लोत्फुल्लसंफुल्लव्या- कोचविकवस्फुटाः- फुल्लश्चैते विकसित्ते' इत्यमरः । तथा चन्द्रोऽपि- कैरवचक्रवाळं कुमुदषण्डं - नि। सिते कुमुदकैरव' इत्यमरः। विकासयति व्याकोषयति । तथा जलबरो वारिवाहोऽपि * पचा