पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/७८

एतत् पृष्ठम् परिष्कृतम् अस्ति
७६
नीतिशतके

इतः स्वपिति केशवः कुलमितस्तदीयद्विषा-
मितश्च शरणार्थिनां शिखरिणां गणाः शेरते ।
इतोऽपि बडवानलः सह समस्तसंवर्तकै-
रहोक्तितमूर्जितं भरसहं च सिन्धोर्वपुः ॥ ६८ ॥

 व्या.----अथैतन्माहात्म्यमाह - इत इति - इतोऽस्मिन्प्रदेशे। केशवो विष्णुः कुक्षिस्थाखिलभुवन इति भावः । स्वपिति योगानु- संधानेन निद्राति रुदादिभ्यस्सार्वधातुक' इतीडागमः । इतो-5 स्मिन्प्रदेशे। तस्य केशवस्य इमे तदीयाः के त्यदादित्वात् वृद्धाच्छः - ये द्विषो हिरण्याक्षरावणादयस्तेषां । कुलं समूहस्तिष्ठतीति शेषः । इत- स्ततोऽन्यस्मिन् प्रदेशेऽपि। शरणार्थिनो रक्षणाभिलाषिणः - नि. 'शरणं गृहरक्षित्रो’रित्यभिधानात् । तेषां शिखरिणां मैनाकादिपर्व- तानां गणाश्च । शेरते स्वपन्ति ।”शीङो रुडि’ति रुडागमः। इत- स्तस्मादप्यन्यस्मिन् प्रदेशे। समस्ता ये संवर्तकाः प्रळयकालप्रवर्षि- मेघविशेषाः - अत एव पुष्कलावर्तकसंज्ञया च व्यवह्रियन्ते - तै स्सह । बडबानलोऽपि वसति - तस्मात् । सिन्धोस्समुद्रस्य । वपु- शरीरं । विततं केशवाधारत्वेन विस्तृतं। अर्जितं बडबानलाश्रय- वेऽप्यतिवर्धिष्णु। भरसहं पर्वतभरणेन भारोद्वहनक्षमं च । अहो अप्रमेयानुभावत्वेनात्यन्ताश्चयमित्यर्थः.  अत्र लक्षयोजनपरिच्छिन्नस्य समुद्रस्यापरिच्छिन्न केशवाद्य- चतारत्वकथनादधिकप्रभेदोऽलङ्कारः . " आधाराधेययोरानुरूप्या- भावोऽधिको मत" इति लक्षणात् ।। पृथ्वीवृत्तम् ।।