पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/७९

एतत् पृष्ठम् परिष्कृतम् अस्ति
७७.
परोपकारपद्धतिः

जातः कूर्मः स एकः पृथुभुवनभरायापितं येन पृष्ठं
श्लाघ्यं जन्म ध्रुवस्थ भ्रमति नियमितं यत्र तेजस्विचक्रम् ।
संजातव्यर्थपक्षाः परहितकरणे नोपरिष्टान्न चाधो
ब्रह्माण्डोदुम्बरान्तर्मशकवदपरे जन्तवो जातनष्टाः ॥ ६९ ॥

 व्या.----अथ परहिताचरणपराकाप्रया द्वयोरेव जन्म सफलं न त्वन्येषामित्याह - जात इति..---किं बहुना। अवतारेष्वपीत्य- ध्याहार्यम्.----एकः केवलस्स कूर्मः अदिकूर्मावतार एव जातः जन्मलाभवानित्यर्थः । कुतः येन कूर्मेण । पृथुर्महान् - यो भुवनभर- चतुर्दश विष्टपमारस्तस्मै तद्वहनार्थमित्यर्थः - पृथु विपुलमिति पृथ- क्पदं वा । पृष्ठं निजकूर्परतलमर्पितं दत्तं - निरन्तरमधःप्रदेशे स्थित्या दुर्भरभुवनभारेण जनितः क्लेशस्सोढ इत्यर्थः। तथा ध्रुव- स्यौत्तानपादेर्जन्म । श्लाघ्यं सकललोकप्रशस्तम्। कुतः? यत्र यस्मिन् ध्रुवे: तेजस्विनां ग्रहनक्षत्रादीनां - चक्रं शिंजुमाराख्यं ग्रहनक्षत्र- मण्डलं वा। नियमितं नियुक्तं सद्भ्रामति पर्यावर्तते - तत्रभवान्भगव. दनुग्रहवशात्सकलोकोन्नतमेरुशिखरशिखामणिधुवः स्वायत्तत्वेन तेजस्विचक्रं प्रवर्तयतीति श्रीविष्णुपुराणभागवतादिकथाऽनुसंधेया ; ततः किमत आह-परहितकरणे परोपकाराचरण विषये । व्यर्थों निरर्थः अप्रयोजक इति यावत् - यः पक्षः - संजातो येषां ते सिंजातव्यर्थपक्षाः - न तु संजातपरहितकरणसमर्थपक्षा इत्यर्थः

  • सापेक्षत्वेऽपि गमकवात्समासः। अपरे उक्ताभ्यामन्ये । जन्तवः

प्राणिनः - नैच्योद्भावनार्थकोऽयं जन्तुशब्दप्रयोगः। उपरिष्टान्न। ध्रुवव- दुपरिभागेऽपि वर्तमाना न भवन्तीत्यर्थः । अधश्च न । कूर्मवदधस्ताद्वा