पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/८०

एतत् पृष्ठम् परिष्कृतम् अस्ति
७८
नीतिशतके

वर्तमाना अपि न भवन्तीत्यर्थः । किं तु उदुम्बरः जन्तुफलाख्यवृक्ष- विशेषः - तस्य फलमुदुम्बरं - नि. 'उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धक' इत्यमरः । ‘फले लुगि'ति लुक - ब्रह्माण्डमुदुम्बरं तस्यान्तः अन्तराळे - अव्ययमेतत् । ये मशकास्तैस्तुल्यं तद्वत् तेन तुल्यं क्रियाचेद्वति'रिति वतिप्रत्ययः। जाता उत्पन्नाश्च ते नष्टाश्च जातनधाश्च भवन्तीति शेषः ॐ स्नातानुलिप्तवत्पूर्वकालसमासः - यतो न तैः किमपि साधितमतो मशकवन्निष्फल जन्मभिः किमन्यै- रिति भावः,  रूपकोपमयोस्संकरः  स्रग्धरावृत्तम् .

तृष्णां छिन्धि भज क्षमां जहि मदं पापे रतिं माकृथाः
सत्यं ब्रह्यनुयाहि साधुपदवीं सेवस्व विद्वज्जनम् ।
मान्यान्नानय विद्विषोऽप्यनुनय प्रख्यापय प्रश्रयं
कीर्ति पालय दुःखिते कुरु दयामेतन्सतां चेष्टितम् ॥ ७० ॥

 व्या..-अथ विधेयलोकं संबोधयंत्सदाचारं शिक्षयति - तृष्णामिति- हेजनेत्यध्याहार्यं सर्वत्रापि - मध्यमपुरुषप्रयोगसंभ- वात् । अलभ्येषु परधनेषु लाभाभिलाषस्तृष्णा - तां छिन्धि वैराग्य- शस्त्रेण विदारय-अन्यथा अनेकाशापाशनिबद्धत्वेन क्लेशभागित्वं स्यादिति भावः । परिभवादिषूत्पद्यमानेस्षु क्रोधप्रतिबन्धः क्षमा - तां - भज सेवस्व अन्यथा उप्रभावन कार्यहानिस्स्यादिति भावः। मदं विद्याजनितदर्पम्। जहि विज्ञानेन विनाशय - अन्यथा विवेक- शून्यतया अकार्यकरणप्रवृत्तौ अनर्थप्राप्तिस्यादिति भावः। पापे पाप- कर्माचरणे रतिं प्रीतिम् । माकृथाः अज्ञानेन माकार्षीः - किं तु