पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/८१

एतत् पृष्ठम् परिष्कृतम् अस्ति
७९
परोपकारपद्धतिः

धर्मं घरे'त्याद्युपदेशवचनेन सत्कर्माचरणे। एव रतिं कुर्वित्यर्थः . अन्यथा निरयपातस्स्यादिति भावः । करोतेर्लुङिथासि ’न माङ्योग'इत्यतट् प्रतिषेधः। सत्यं सूनृतम्। ब्रूहि ’सत्यं वदे’ति वचनेन यथार्थमेव वचनं वदेत्यर्थः - अन्यथा ’नानृतात्पातकं पर' मिति न्यायादविवेकित्वप्रसक्तिरस्यादिति भावः । साधुपदवीं सन्मार्ग- मनुयाहि धर्मशास्त्रानुरोधेनानुसर - अन्यथोत्पथप्रतिपन्नत्वे वचनीय- तादिदोषापत्तिस्स्यादिति भावः। विद्वज्जनं उपदेशेन कृतार्थीकरण- शीलं पण्डितमण्डलम् । सेवस्व

“यस्तु पर्यटते देशान् यस्तु सेवेत पण्डितान् ।
तस्य विस्तारिता बुद्धिस्तैलबिन्दुरिवाम्भसि ॥"

इति वचनाद्बुद्धिवैशद्यार्थं शुश्रूषस्व - अन्यथा बुद्ध्यवैशद्याशिक्षित- स्वाद्यभियोगस्स्यादिति भावः । मान्यान् पूज्यान्मानय यथार्हं पूजय - अन्यथा “ समासमाभ्यां विषमसमे पूज्ये” इति गौतमसूत्रात् ।

" अपूज्यायत्र पूज्यन्ते पूज्याश्चैवावमानिताः ।
अयशो महदाप्नोति धनाद्धर्माच हीयते ।।"

इत्यादिस्मरणाञ्च अन्यथा अकीर्तिस्सुकृतधनहींयमानत्वरूपाऽश्रेयः प्राप्तिस्स्यादिति भावः । किं बहुना। विद्विषशत्रूनपि किमुतान्यान् । अनुनय- समश्शत्रौ च मित्रे च'इति भगवद्वचनात्प्रसादय - अन्यथा रन्ध्रेषु पातयिष्यन्तीति भावः । प्रश्रयं गुर्वाचार्यादिषु नम्रत्वं । विनय- मिति यावत् । प्रख्यापय 'गुरौ नम्रतेत्युक्तत्वात्प्रकटय - अन्यथा दुर्वि- नीतत्वापवादप्रसङ्स्स्यादिति भावः; कीर्ति पालय। जन्मसाफल्यार्थं