पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/८३

एतत् पृष्ठम् परिष्कृतम् अस्ति
८१
धैर्यपद्धतिः

गतिसंज्ञायां * 'कुगतिप्रादय' इति समासः । नित्यं ख्यापयन्तः निरन्तरं प्रशंसन्तः । तथा निजहृदि स्वान्तःकरण एव विकसन्तः । संतुष्यन्तस्सन्तः सत्पुरुषाः। कियन्तः कतिपये विरळा वेत्यर्थः। सन्ति - न तु सान्द्राः एतादृशगुणसंपत्तेरसाधारण्यादिति भावः । 'निजहृदि विकसन्तस्सन्ति सन्तः कियन्त' इत्येव पाठः - तथा- चोक्तं - 'सौजन्यामृतसिन्धव' इत्यादि. मालिनीवृत्तम.

इति नीतिशतक परोपकारपद्धतिस्सम्पूर्णा ॥



॥ धैर्यपद्धतिः ।।

रत्नैर्महाब्धेस्तुतुपुर्न देवा न भेजिरे भीमविषेण भीतिम् ।
सुधां विना न प्रययुर्विरामं न निश्चितार्थाद्विरप्नन्ति धीराः ।।

 व्या.---रत्नैरिति - देवा अमराः। महाब्धेः क्षीरार्णवस्य संबन्धिभिः। रत्नैः कौस्तुभादिमणिभिः - नि.-' रत्नं श्रेष्टेमणावपीति विश्वः - यद्वा - रत्नैः - नि.-' जातौ जातौ च यच्छ्रेष्टं तद्रत्न- मभिधीयत' इति वचनात् - ऐरावतोच्चैश्श्र्वः कल्पवृक्षादिश्रेष्ठजातीय- वस्तुभिः हेतुभिः। न तुतुषुस्तुष्टिं न प्रापुः - मथनसमय इति शेषः । तथा। बिभ्यत्यस्मादिति भीमं । भीमादयोऽपादान' इत्यपादा- नार्थे भियः मप्रत्यय औणादिकः - तथाभूतं यद्विषं कालकूटाख्यं - केन हेतुना तस्मादित्यर्थः । न भीतिं। भेजिरे न प्रापुरिति धैर्याति- शयोक्तिः ॐ विषेणेत्यत्र भीत्नार्थानां भयहेतु'रित्यपादाने पञ्चम्या भाव्यं । तथापि हेतुत्वमात्रविवक्षयाऽयं निर्देश इति मन्तव्यम्। किं तु सुधाममृतं - विना * 'पृथग्विनेत्यादिना द्वितीया। विराम-