पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/८५

एतत् पृष्ठम् परिष्कृतम् अस्ति
८३
धैर्यपद्धतिः

अत्र प्रकरणे कुत्रचिद्धैर्यस्य कुत्रचिच्छीलस्य कुत्रचिदुभयस्यापि प्राधान्यनिर्देश इति द्रष्टव्यम् 'मनसो निर्विकारत्वं धैर्य सत्स्वपि हेतुष्वि'त्युक्तलक्षणं धैर्यं - शीलं तु नियतकुलोधितसत्स्वभाव इति विवेकः - 'शीलं स्वभावे सद्वृत्ता' वित्यभिधानात्.

 वसन्ततिलकावृत्तम् .

क्वचित्पृथ्वीशय्यः क्वचिदपि च पर्यङ्कशयनः
क्वचिच्छाकाहारः क्वचिदपि च शाल्योदनरुचिः ।
क्वचित्कन्याधारी क्वचिदपि च दिव्याम्बरधरो
मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ।। ७४ ।।

 व्या...--अयोक्तगुणसंपन्नस्य कृच्छ्राकृच्छ्रयोर्दुःखसुखापरि- गणनया कार्यसाधनत्वमाह - क्वचिदिति-क्वचित्कुत्रचिद्देशे काले वा। पृथ्वी शय्यां यस्य स तथोक्तः - कठिनतरस्थण्डिलशयनोऽपी- त्यर्थः । क्वचिच्च्। पर्यङ्के हंसतूलिकातल्पे - शयनं स्वापो - यस्य स तथोक्तः - मृदुलतरशय्योऽपीत्यर्थः - नि.- शयनं मञ्चपर्यङ्कपल्यङ्काः खट्वयासमाः'- स्यान्निद्रा शयनं स्वाप' इत्युभयत्नाऽप्यमरः । क्वचिच्छाक एवाहारो यस्य नीरसाहारोऽपीत्यर्थः । क्वचिञ्च । शाल्यो- दने शाल्यग्ने - रुचिः स्वादो यस्य स तथोक्तः - षडूसोपेतमृष्टान्न- भोजनसंतुष्टोऽपीत्यर्थः । क्वचित्कन्थां जीर्णवत्वशकलनिर्मिताच्छादनं क्षरयतीति कन्थाधार्यपि। क्वचिश्च दिव्याम्बरधरः कनत्कनकपी- ताम्बरधरोऽपि। कार्यार्थी कार्यनिष्पत्यभिलाषी - अर्थः अभिलाष:- तद्वानर्थीति विग्रहः * 'कृद्धृत्तेस्तद्धितवृत्तिर्बलीयसी'ति महाभाष्ये । मनस्वी महामनाः धीरः * प्रशंसायामिनिः। पृथ्वीशय्यादिना