पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/८६

एतत् पृष्ठम् परिष्कृतम् अस्ति
८४
नीतिशतके

दुःखं च न गणयति। पर्यङ्कशयनादिना सुखं च न गणयति ।। किंतु सुखदुःखयोस्समानावस्थयैव कार्यसाधनतत्परो भवतीत्यर्थः ।।

निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु
लक्ष्मीः समाविशतु गच्छतु वा ययेष्टम् ।
अद्यैव वा मरगमस्तु युगान्तरे वा
न्याय्यात्पथः प्रविचलन्ति पदं न धीर: ॥ ७५ ॥

 व्या.----अथ धीराः लोकनिन्दास्तुतिप्राप्ता अपि न्याय- मार्गान्न भ्रश्यन्तीत्याह - निन्दन्त्विति -नीतिनिपुणा नयविशारदाः। निन्दन्तु कथंचिद्दूषयन्तु। वा यदि अथवा । स्तुवन्तु भूषयन्तु वा। लक्ष्मीरसंपत् । समाविशतु प्राप्नोतु। वा, उत । यथेष्टं निरगळम्। गच्छतु था। अद्यैवेदानी मेव। मरणं निव**स्तु वा। उत युगा- न्तरे कल्पान्तरे वाऽस्तु। तथापि। धीर***शालिनः न्याय्यान्- न्यायादनपेतात्पथो मार्गात्। पदमेकपादविन्यासमात्रमपि। न - प्रविचलन्ति न भ्रश्यन्ति । तेषां न्यायमार्गापरित्याग एव परमार्थों - न निन्दास्तुत्यादिरिति भावः ॥  वसन्ततिलकावृत्तम् ॥

कान्ताकटाक्षविशिखा न लुनन्ति यस्य
चित्तं न निर्दहति कोपकृशानुतापः ।
कर्षन्ति भूरिविषयाश्च न लोभपाशै
र्लोकत्रयं जयति कृत्स्नमिदं स धीरः ॥ ७६ ॥

 व्या.-ननु को धीरस्स वा किं साधयतीत्याशक्याह-- कान्तेति-यस्य चित्तं । कान्ताकटाक्षाः-