पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/८७

एतत् पृष्ठम् परिष्कृतम् अस्ति
८५
धैर्यपद्धतिः

" यद्गतार विश्रान्ति वैचित्र्येण विवर्तनम् ।।
तारकायाः कळाभिज्ञास्तं कटाक्षं प्रचक्षते ॥"

इति भावप्रकाशोक्तलक्षणलक्षितकामिन्यपाङ्गालोकनानि - त एव विशिखा बाणा नलुन्ति न भिन्दन्ति न सम्मोहयन्तीति यावत् स्था कोपकृशानुतापः क्रोधाग्निसंतापश्च । न निर्दहति न व्याकुल- यति। तथा भूरयो बलवत्तरा - विषयाः शब्दादीन्द्रियार्थाश्च । लोभः परस्वापरहरणे प्रयत्नः - एतेन कामादयोऽप्युपलक्ष्यन्ते - तथाच - लोभा एव पाशा रज्जवश्व बन्धनहेतुत्वात्तेषां पाशत्वारोपण। न तर्षन्ति तृष्णायुक्तं न कुर्वन्ति - कर्षन्तीति पाठे न स्वायत्तीकुर्वन्ती- त्यर्थः । स धीरः। कृत्स्नपशेषं। लोकत्रयं स्वर्गादिलोकत्रितयमपि जयत्यामाधीनं करोतीत्यर्थः। तस्य न किंचिदप्यसाध्यमिति भाव: वृत्तं पूर्ववत् ॥

कर्थितस्यापि हि धैर्यवृत्तेन शक्यते धैर्यगुणः प्रमार्ष्टुम् ।
अधोमुखस्यापि कृतस्य वह्वेर्नाधश्शिखा यान्ति कदाचिदेव ॥

 व्या.-धैर्यगुणन्यक्कारः कथंचिदपि न युज्यत इति सदृष्टान्तमाह - कदर्थितस्येति.---कुत्सितोऽर्थः कदर्थः * 'को: कत्तत्पुरुषेऽधी'ति कुशब्दस्य कदादेशः - कदर्थीकृतः कर्थितः तस्य नीचैः । कृतस्यापि सतः धैर्येण वृत्तिर्वर्तनं यस्य तस्य संबन्धि धैर्यमेव गुणः। प्रमार्ष्टुमधः-कर्तु। न शक्यते । तत्र दृष्टान्तः - अधोमुखस्य कृतस्यावा्ङ्मुखीकृतस्यापि सतो। वह्नेश्शिखा ज्वाला। कदाचिदेव कदाचिदप्यधो न यान्ति - किं तूर्ध्वमेव प्रसरतीर्थः । तद्वद्धारस्यापि धैर्यगुण इति विवेकः. उपजातिवृत्तम.