पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/८८

एतत् पृष्ठम् परिष्कृतम् अस्ति
८६
नीतिशतके

वरं शृङ्गोत्सङ्गाद्गुशिखरिणः क्वापि विषमे
पतित्वाऽयं कायः कठिनदृयदन्ते विदलितः।
वरं न्यस्तो हस्तः फणिपतिमुखे तीक्ष्णदशने
वरं वहौ पातस्तदपि न कृतः शीलविलयः ॥ ७८ ॥

 व्या.-मरणोद्योगो वा वरं न तु शीलविलय इत्याह- वर- मिति.---अयं कायो देहः गुरुशिखरिणोऽत्युन्नतपर्वतस्य शृङ्गो- त्सङ्गाच्छृङ्गोपरिभागात्क्वापि कस्मिंश्चिद्विषमे विकटे। कठिनदृषदन्ते कर्कशपाषाणान्तराळे। पतित्वा विगलितः शकलितश्चेद्वरं मनाक्प्रियं। तथा हस्तस्तीक्ष्णदशने विषानलोग्रदंष्ट्रे। फणिपतेः - मुखे वक्त्रे । न्यस्तश्चेद्वरं । तथा वह्नौ पातोऽग्निप्रवेशोऽपि। वरं। किं तु शील- विलयस्स्वभावत्यागः । कृतश्चेन्न वरम्। मनाक्प्रियमपि । न भवती- त्यर्थः। प्राणप्रयासेऽपि शीलं न त्याज्यमिति तात्पर्यम् - 'दैवाद्वृते वरः श्रेष्टे त्रिषु क्लीबं मनाक्प्रिय' इत्यमरः.


वह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणा-
नभेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरङ्गायते।
व्यालो माल्यगुणायते वि?रसः पीयुषवर्षायते
यस्याङ्गेऽखिललोकवल्लभतरं शीलं समुन्नीलति ।। ७९ ।।

 व्या.-नन्वेवं शीलस्यात्यन्तावश्यकत्वमुक्तं। तद्भावे को लाभ इत्याशङ्कायामाह - वहिरिति..---तस्य पुंसः। वह्निर्दाहकोऽपीति भावः । जलायते जलमिवाचरति - तवच्छीतलो भवतीत्यर्थः * 'कतुः क्यड्सलोपश्चे'ति क्यङ् * 'अकृत्सार्वधातुकयो'रिति दीर्घः - एवं सर्वत्र प्रयोज्यम् जलनिधिर्दुस्तरोऽपीति भावः। कुल्यायते अल्पनदी-