पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/८९

एतत् पृष्ठम् परिष्कृतम् अस्ति
left
८७
धैर्यपद्धतिः

वाचरति। तस्येति सर्वत्रान्वयोऽवगन्तव्यः । तत्क्षणात्तस्मिन्नेव क्षणे - न तु विलम्बनेत्यर्थः । मेरुः स्वल्पशिलायत अल्पदृषदिवा- चरति। मृगपतिस्सिहः - हिंस्रोऽपीति भावः। सद्यः कुरङ्गायते हरिण इवाचरति। व्याळसर्पः - विषरोगभीषणोऽपीति भावः । माल्यगुणायते पुष्पस्रगिवाचरति । विषमेव - रसो द्रवः प्राणप्रया- सहेतुरिति भावः। पीयूषवर्षायते अमृतवृष्टिरिवाचरति । कस्येत्याका- ङ्क्षायामाह - यस्य पुंसोऽङ्गेऽखिललोकानामशेषजनानां - वल्लभतर- मत्यन्तमनोहरं। शीलं सत्स्वभावः । समुन्मीलति समुल्लसति । तस्येतिसंबन्धः। शीलसंपन्नस्य दुःखहेतवोऽपि सुखहेतव एव भवन्ति । अयमेव परमलाभ इति भावः .

 अत्र कृव्यर्थादौपम्यप्रतीते रुपमाभेद:.--

"इवादिलोपे विविध णमुलि क्यचि घ क्यङि ।
तथा वाक्ये समासे च सप्तधैषः प्रकीर्तिता ।।"

इति

(एषा उपमेत्यर्थः.)

छिन्नोऽपि रोहति तरुः क्षीणोऽप्युपचीयते पुनश्चन्द्रः ।
इति विमृशन्तस्सन्तः सन्तप्यन्ते न लोकेषु ॥ ८० ॥

 व्या.--अथैषां कदाऽपि संतापो न प्रवर्तत इत्याह - छिन्न इति.-तरुः छिन्नस्सन्नपि । पुना। रोहत्युद्गच्छति । चन्द्रः। क्षीणः कृष्णपक्षे दिनक्रमेण कृशस्सन्नपि। पुनरुपचीयते प्रवर्धते इत्येवं। 'विमृशन्तो मनस्यनुसंदधानास्सन्तः शीलसंयन्ना लोकेषु बन्धु- जनेषु। विश्लथेषु विह्वलेषु सत्स्वपि। न संतप्यन्ते। किं तु तरुचन्द्र- दृष्टान्तेनाभिवृद्धिमाशंसन्त एव सन्तीत्यर्थः. आर्याभेदः.