पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/९

एतत् पृष्ठम् परिष्कृतम् अस्ति
मुर्खपद्धतिः

व्याख्याने भाष्यकारेणार्थज्ञशब्दमुदाहृत्यास्यार्थस्य समर्थनात्; एत- च्वासकृदुक्तं मदीयशृङ्गारशृङ्गाटकेऽपि - ' रुक्मिणीरसमयं समयज्ञः' इत्यादिषु; एवमुत्तरत्रापि द्रष्टव्यम् । - आर्यावृत्तभेदोऽयमुन्नेयः; उत्तरत्रापि भेदान्तराण्युन्नेयानि ॥

प्रसह्य मणिमुद्धरेन्मकरवक्त्रदंष्ट्रान्तरा-
त्समुद्रमपि संतरेत्प्रचलदूर्मिमालाकुलम् ।
भुजङ्गमपि कोपितं शिरसि पुष्पवद्धारये-
न्नतु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ ४ ॥

 व्या.---अथ द्वाभ्यां मूर्खजनचित्तस्य दुराराध्यतामाह--- प्रसह्येति-मकरः शिंशुमाराख्यो जलग्राहविशेषः - तस्य वक्रे बदनगह्णरे दंष्ट्राणां निशिताप्रदशनविशेषाणाम् - अन्तरात् अन्तराळात् - अतिसंकटादित्यर्थः । प्रसह्य बलात्कारेण । मणि रत्नं - दुद्धरमपीति भावः। उद्धरेदुद्धतुं शक्नुयात्। जन इति शेषः । केनचिवधाने- नानयेदित्यर्थः । तथा प्रचलन्तो दोलायमानाः - ये ऊर्मयस्तेषां - मालाभिः परम्पराभिराकुलम् उल्लोलोज्जृम्भितमित्यर्थः । समुद्रमपि - दुस्तरमपीति भावः। संतरेत् सम्यक्तरितुं शक्नुयात् - केनचितवन- साधनेनेति भावः। लङ्घयेदिति पाठे हनुमानिव केनचिच्छक्ति- विशेषेण लञ्घितुं शक्नुयादित्यर्थः। तथा कोपितं संजातकोपं - कोप- वशात् सफूत्कारं जिह्वया मुक्कप्रान्तौलेलिहानमित्यर्थः - " तदस्य संजातं - तारकादिभ्य इतजि"तीति तच्प्रत्ययः - तारकादिराकृति- गणः । भुजङ्गं सर्पमपि - दुर्धरमपीति भावः। शिरसि केशपाशे ।