पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/९५

एतत् पृष्ठम् परिष्कृतम् अस्ति
९३
दैवपद्धतिः

क्षणमात्रेण भङ्गरं नश्वरमित्यर्थः । करोति चेत्। विधे रपण्डितता मौढ्यमहह कष्टमतिकृच्छमिति विषादातिशयाभियोतकमहहेति : करोति चेत्तत्पाण्डित्यमेवेत्यर्थः । तथा ताद्दक्पुरूषरत्नस्य क्षणभङ्गित्वे- नैव निर्माणात्तु अपण्डित एवं विधिरिति परमरहस्यम् .  द्रुतविलम्बितम् .

अयममृतनिधानं नायकोऽप्योषधीनां
शतभिषगनुयातः शम्भुमूर्भोऽवतंसः ।
विरहयति न चैनं राजयक्ष्मा शशाङ्क
हतविधिपरिपाका केन वा लङ्घनीयः ॥ ८८ ॥

 व्या.---कथंचिदपि दैवयोगो न लङ्घय इत्याह - अयमिति- । अयं परिदृश्यमानश्चन्द्रः। अमृतस्य । निधानं स्थानमपि ओषधीनां । संजीविन्यादीनाम् । नायको नेताऽपि । शतभिषजा नक्षत्रेण - शतेन भिषभिर्धेचैश्वानुयातोऽनुमृतोऽपि । किं बहुना शम्भोस्सकललोकक्षे- मङ्करस्य शंकरस्य । मूोऽवतंसशिरोभूषणमप्येनमुक्तविशेषणविशिष्टं शशाङ्कं राजयक्ष्मा क्षयरोगो। न विरहयति न त्यजति खलु। अतो हतविधेर्नष्टदेवस्य - परिपाको नियोगः केन वा पुंसा । लङ्घनीयो न केनाऽपीत्यर्थः; हतेति निर्वेदानुसंधानार्थकः । राजयक्ष्मेत्यत्र राज्ञ- श्चन्द्रस्य यक्ष्मा - राजा चासौ यक्ष्मेति वा विग्रहः यथाह बाहट:-

"अनेकरोगानुगतो बहुरोगपुरोगमः ।
राजयक्ष्मा क्षयोऽशेषरोगराडिति च स्मृतः ॥"

प्रियसख विपदण्डाघातप्रपातपरम्परा-
परिचयरले चिन्ताचक्रे निधाय विधिः खलः ।