पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/९६

एतत् पृष्ठम् परिष्कृतम् अस्ति
९४
नीतिशतके

मृदमिव बलात्पिण्डीकृत्य प्रगल्भकुलालव-
शमयति मनो नो जानीमः किमत्र विधास्यति ॥ ८९ ॥

 व्या.---मनोनियन्ताऽप्ययमेवेति सखायं संवोधयति - प्रिय : इति - प्रियश्चासौ सखा च प्रियसखः - तस्य संबुद्धिः - हे प्रिय- सखः 'राजाहस्सखिभ्यष्ट खलइशठोऽयं विधिः । प्रगल्भकुला- लेन तुल्यं प्रगल्फकुलालयत् प्रौढकुम्भकारइवेत्यर्थः * 'तेनतुल्यं- क्रियापद्वतिरितिवतिः। मनोमदीयचित्तम्। मृदं मृत्तिकामिव । बला- सामर्थ्यापिण्डीकृत्य कपालीकृत्य। विपदः आपदः - दण्डाधाताः मुद्रघट्टनानीव - तेषां - प्रवातानां च - या परम्परा पौनःपुन्येना- वृत्तिः - तस्याः यः परिचयस्संस्तरो निबिडावयवपरस्परसन्निवेशश्च स एव - बलं दाव्य यस्य तस्मिन् । चिन्ताचक्रे चिन्ताचक्रमिव तस्मि- निधाय भ्रमयति । अत्र भ्रमणे। कि विधास्यति किं करिष्यति वा। नो जानीमः । कुलालस्तु घटं करिष्यत्ययं तु किं विधास्यति न जानीम इत्यर्थः॥

चिरम विश्मायासादस्माहरण्यवसायतो
विपदि महतां धैर्यध्वंसं यदीक्षितुमीहसे ।
अयि जड विधेकल्पापायेऽप्यपेतनिजक्रमाः
कुलशिखरिणः क्षुद्रा नैते न वा जलराशयः ॥ ९० ॥

 व्या.-एवमापत्परम्पराचरणे महद्वैर्यध्वंसो भविष्य तीति न मन्तव्यमिति विधिमलक्षीकृयोपालभते - विरमेति.-- अयाति प्रश्ने - नि. 'अयिप्रश्नानुनयो रिति विश्वः । जडेसि मान्थे - विधे हे दैवेति संबोधनत्रयम्। अस्माहु रध्यवसायतो दुराप्रहाय