पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/९८

एतत् पृष्ठम् परिष्कृतम् अस्ति
९६
नीतिशतके

तद्वस्तु तस्योपनमेत् संगच्छत्। महानायो। मनागीषदपि । नैव कारणं न साधनं हि - बहुफलप्राप्ताविति शेषः। तत्र दृष्ट्वान्तः - सर्वाशापरिपूरके - सकललोकमनोरथपरिपूरके- सकलदिगन्तव्यात- फलके वा। जलधरेऽम्बुवाहे के पचाद्यच्। अन्यहनि प्रत्यहम्

  • 'अव्ययं विभक्ती त्यादिनाऽव्ययीभावः - अह्रश्च 'नपुंसकव.

दन्यतरस्या' मिति समसान्तः । वर्षति सत्यपि । घातकस्य स्तोकक- पक्षिणो। मुख चञ्चूपुटे। सूक्ष्मा अणव एव। तथाऽपि द्वौ वा त्रयो वा द्वित्रा एवं * 'संख्ययाव्ययासन्नेत्यादिना बहुव्रीहिः

  • 'बहुप्राही संख्यये डजबहुगणा' दिति डच् प्रत्ययः ।

पयोबिन्दवो जलकणाः। पतन्ति - न स्वाश्रयमहत्तया बहुजल- लाभस्तत्रापि देवस्यैव नियन्तृत्वादिति भावः - तस्मात्सर्वथा दैव- मेव शरणमिति तात्पर्यम् - नि. स्तोककश्चातकस्समा' इत्यमरः.

इति नीतिशतके देवपद्धति सम्पूर्णा ॥


॥ कर्मपद्धतिः ॥

नमस्यामो देवाननु हतविधेस्तेऽपि वशगा
विधिर्वन्यः सोऽपि प्रतिनियतकमैकफलदः ।
फलं कर्मायत्तं किममरगणैः किं च विधिना
नमसत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥ ९२ ॥

 व्या.---यदुक्तं देवेन प्रभुणेत्यादिसंदर्भेण देवस्यैवात्यन्ताव. श्यकत्वं । तस्यापि कर्मनियम्यत्वेनास्वातन्त्र्यादित्याशयेन देवपद्धति-