पृष्ठम्:भामिनीविलासः.djvu/४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३४
भामिनीविलासे

 यस्मिन्निति । यस्मिन्खेलति क्रीडति सति। हरिदिति।‘दन्ती दन्तावलो हस्ती' इत्यमराद्दिग्गजा इत्यर्थः । हृदि मनसि । कल्लोलेति । महर्भिनिनादैः। मन्येति । मन्था समुद्रमथनदण्डीभूतो मन्दरः स चासावद्भिश्च तस्य यद्रमणं परिवर्तनं तस्य यो भ्रमोऽवभासस्तमित्यर्थः। पेदिरे प्रापुरिति यावत् । किं तावतेत्यत आह सोऽयमित्युत्तरार्धेन । सोऽयं प्रत्यक्षः । तुङ्गति । तुङ्गा महत्तरास्ते च ते तिमिंगिला महामत्स्यास्तेषां यान्यङ्गानि तेषां यः कवलीकारो प्रासीकरणं तत्र क्रियाको- विदो व्यापारेण कुशलः। न तु ज्ञानमात्रनिपुण इत्यर्थः । एवं च कवलीकारको- विद इत्येतावतैव सार्थक्ये क्रियापदानर्थक्यं परास्तम् । एतादृशः । अत एव केलीति । केलिना वध्वादिभिः सह क्रीडया न तु तदपराधेन यः कलहः सङ्गा मस्तेन त्यकोऽर्णवः समुद्रो येन स तथा। एतादृशो राघवः । ‘तिमिंगिलगिलो ऽप्यस्ति तर्फिलोऽप्यस्ति राघव’ इति वचनान्निरुपमो मत्स्यविशेषः । कस्य सरसः कोडे। ‘क्रोडः सूकरमातङ्गयोः कोडा कोडं च वक्षसि’ इति विश्वाद्वक्षसि । मध्य इति यावत् । क्रीडतु विहरतु । न कस्यापि विहरखिति संबन्धः । तस्मादेतादृश किंचिल्लीलाकलहयक्तसार्वभौमाश्रयः पण्डितमण्डलीपूजनीयः श्रीगुरुरयं क्षुद्रस्य राजकुमारस्य तव निकटेऽवस्थातुं नैव योग्य इत्याशयः। ‘तिमिंगिलादयश्चान्ये इत्यमरः। अत्रोदात्तो नायकः । अद्भुत एव रसः। अक्रमातिशयोक्त्यलंकारः ॥

 एवं तटस्थस्यातिगुणज्ञतामालक्ष्य स एव पण्डितः स्वत्गतमेवानेन राजकुमारेणास्य परिपालनमेव कर्तव्यं न तु तिरस्करणमिति द्योतयंल्लवङ्गलतिकान्योक्तया वदति--

लूनं मत्तगजैः कियत्कियपि च्छिन्नं तुषारार्दितैः
शिष्टं ग्रीष्मजभीष्मभानुकिरणैर्भस्मीकृतं काननम् ।
एषा कोणगता मुहुः परिमलैरामोदयन्ती दिशो
हा कष्टं ललिता लवङ्गलतिका दावाग्निना दह्यते ॥ ५४ ॥

 लूनमिति । काननं वनं यद्यपि कियत्किंचिन्मत्तगजैर्घनं छिनम् । तथा कियदपि तुषारार्दितैस्तुषारेण । ‘तुषारस्तुहिनं हिमम्' इत्यमराद्धिमेनार्दिताः पीडि तातैः । शीतव्याकुलितैलकैरित्यर्थः । छिन्न खण्डितम् । इन्धनार्थमित्याशयः । पिष्टमुर्वरितम् । ग्रीष्मेति । ग्रीष्मे निदाघे जातः अत एव य। भीष्मो भूरिता पकलाद्भयंकरः एतादृशो यो भानुः सूर्यस्तस्य ये किरणास्तैर्मयूखैरित्यर्थः । भस्मी कृतं नीरसतापादनेन भस्मतां नीतमेवेति संबन्धः । तथाप्येषा प्रत्यक्षा कोणगता