पृष्ठम्:भामिनीविलासः.djvu/४९

एतत् पृष्ठम् परिष्कृतम् अस्ति
४१
अन्योक्त्युल्लासः ।

नेन सदयवादिविश्वासशालिनामित्यर्थः । एतादृशां प्राणिनां मृगादिजीवानां प्राणा नेक एव हरामीत्येवमात्ममनसि खचेतसि परिचिन्त्यानुतापं संतापं मा कृथाः। नैव कुर्विति संबन्धः । ‘मा स्म’ इत्यपि पाठः। तत्र हेतुः--पानामित्युत्तरार्जुन । गूढेति । अप्रकटपरघातकरणाद्यभिप्राया इति यावत् । एतादृशाः । तत्रापि साधू नामरयः। अत एव-चत्तुल्येति । त्वया सह तुल्या समाना कक्षा गूढहिंसना दिकल्पना येषां ते तथा । एतादृशा नराः । ‘खलाः’ इत्यपि पाठः । कति न वस- न्ति । अपि तु वसन्तीति योजना तस्माद्भवता निरुक्तपिशुनानात्मसा- सहस्रशो । म्येनानुसंधायोकानुतापस्त्याज्य एवेति भावः । अत्र शठो नायकः । करुणो रसः । अलंकारस्तूक एव ॥

 ततोऽतिक्षुब्धचेतस्तया स एव पण्डितः पृथ्वीमप्युपालभते—

विश्वास्य मधुरवचनैः साधून्ये वश्चयन्ति नम्रतमाः।
तानपि दधासि मातः काश्यपि यातस्तवापि च विवेकः ॥ ६६ ॥

विश्वास्येति । हे मातः काश्यपि । ‘क्षणी ज्या काश्यपी क्षितिः' इत्यमरा दयि मातर्धरणीत्यर्थः। त्वं तानपि दधासि । अतस्तवापि च विवेको यातो गत एवेत्यन्वयः। तान्कानियत्राह-विश्वास्येति पूर्वार्धेन । ये नरा नम्रतमाः सन्तो मधुरवचनै: साधून्विश्वस्य वञ्चयन्तीति संबन्धः । अत्र काश्यपिपदेन विवेकार्हर्च द्योत्यते । इह प्रौढा नायिका । उक्त एव रसः । काव्यलिङ्गमलंकारः ।

 एवं पण्डितवरं रुटमालक्ष्य स राजकुमारः परिसान्वयन्सामान्यतो विदुषः स्तौति--

अन्या जगद्धितमयी मनसः प्रवृत्ति-
रन्यैव कापि रचना वचनावलीनाम् ।
लोकोत्तरा च कृतिराकृतिरार्तहृद्या
विद्यावतां सकलमेव गिरौ दवीयः ॥ ६७ ॥

 अन्येति । निरुपमगुणत्वेन विलक्षणैवेत्यर्थः। कृतिराचारः । दवीयः । ‘दवी यश्च दविष्ठं च सुदूरे’ इत्यमरादतिदूरमेवास्तीत्यन्वयः। इह ललितो नायकः । अद्भुतो रसः । मेदकातिशयोक्तिरलंङ्कारः ।

 अथ स एव नरवरकुमारस्तमेव खगुरुं प्रति निजापराधक्षमापनप्रार्थनं व्यनक्ति --