पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१०९

पुटमेतत् सुपुष्टितम्
९.रम्यबिन्दुः]
९१
मन्दारमरन्दचम्पूः ।

जलजनिजनिजायाप्रेमपाकेन गोपीजनमनसिजकेलीलम्पटेऽलंपटेन ।
गुहपुरनिलयेन प्रोद्धृतः शुद्धबिन्दुः सुरकुसुममरन्दे चारुचम्पूप्रबन्धे ॥

 इति श्रीमद्धटिकाशतशतघण्टाविहिताष्टभाषासरसकविताचरणनिपुणस्य वासुदेवयोगीश्वरस्यान्तेवास्यन्यतमस्य गुहपुरवासशर्मणः कृष्णशर्मणः कवे कृतौ मन्दारमरन्दे चम्पूप्रबन्धे शुद्धबिन्दुरष्टमः समाप्तिमगमत् ॥



रम्यबिन्दुः ।

रम्यबिन्दावत्र रसलक्षणानि ब्रुवे स्फुटम् ।
तत्रादौ कारणीभूतभावलक्षणमुच्यते ॥
रसानुकूलविकृतिर्भावः स द्विविधो मतः ।
आन्तरश्चैव शारीर इतीदं सर्वसंमतम् ॥
आन्तरस्तु द्विधा स्थायिव्यभिचारिविभेदतः ।
विरुद्धैरवरुद्धैर्वा भावैर्विच्छिद्यते न यः ॥
आत्मभावं नयत्यन्यान्स्थायी यावद्रसस्थितिः ।
रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ॥
जुगुप्सा विस्मयश्चाष्टौ स्थायिभावा यथाक्रमम् ।
मनोऽनुकूलेष्वर्थेषु सुखसंवेदनं रतिः ॥
विलोकयति सा कान्तं सहर्षपुलकोद्गमम् ।
हासो विकृतवेषादिदर्शनान्मानसी क्रिया ।
विकटास्थिमयी माला वस्त्रं चर्माङ्गदं फणी ।
उचितोऽहं वरो गौर्यास्तादृश्या इति सस्मितः ॥ १ ॥
शोकश्चित्तस्य वैधुर्यमभीष्टविरहादिभिः ॥
म्रिये प्रियेण चेदेष किं करोतु स्तनंधयः ।
न चेदसह्यं वैधव्यमिति मोहमियाय सा ॥ २ ॥
प्रतिकूलेषु चित्तस्य वैरस्यं क्रोध उच्यते ।
कुठारोऽयं कठोरास्थिखण्डनोद्यत्खणा(?)कृतिः ।
भिन्द्याल्लिङ्गानि पापानां यैर्वृथा मे हतः पिता ॥ ३ ॥
चित्तस्यास्थिरता सर्वकार्येषूत्साह इष्यते ॥