पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/११३

पुटमेतत् सुपुष्टितम्
९.रम्यबिन्दुः]
९५
मन्दारमरन्दचम्पूः ।

प्राचीनम्--
पुलकितकुचकुम्भपालि राधा व्रजति मुकुन्दमनङ्गकेलिलोला ।
विरचयति न मध्यभङ्गभीतिं गणयति नापि नितम्बगौरवाणि ॥ २० ॥

चापलं त्वनवस्थानं रागद्वेषादिसंभवम् ।
अत्रानुभावाः स्वच्छन्दाचारनिर्भर्त्सनादयः ॥
सु[१]मितलताङ्गीकृतरतिरपि घनपुष्पेषु लोलचित्तोऽयम् ।
कृष्णभुजङ्गः पश्य त्वामभिसमुपैति शीघ्रमित एहि ॥ २१ ॥
आत्मोत्कर्षोऽन्यधिक्काराद्गर्वोऽभिजनतादिजः ।
अत्रानुभावा अन्येषामवज्ञाहसितादयः ॥
तुल्या मया किं सा धूर्त रूपाद्यैस्तव या प्रिया ।
इत्युक्त्वा सस्मितं राधा स्वाङ्गानि मुहुरीक्षते ॥ २२ ॥
जडताप्रतिपत्तिः स्यादिष्टानिष्टागमादिभिः ।
तूष्णींभावोऽत्र कथितः क्रियया वचसापि च ॥
प्रिये समागते तस्थौ क्षणं चित्रार्पितेव सा ।
कालाक्षमत्वमौत्सुक्यं रम्येच्छादिभिरीरितः(तम्) ।
श्वासोच्छ्वासत्वरागत्यादयश्चात्रानुभावकाः ॥
माधवप्रेषितामाराद्दूतिकां वीक्ष्य राधिका ।
समुत्तस्थौ सखीलोकलीलालोलापि सत्वरम् ॥ २३ ॥
दोषापराधदौर्जन्यादिभ्यो निर्दयतोग्रता ।
अत्र स्वेदशिरःकम्पतर्जनाताडनादयः ॥
जितोऽसि मन्दकन्दर्प त्वज्जेतास्ति हृदि प्रियः ।
प्रारब्धकार्यासिद्ध्यादेर्विषादश्चित्तभञ्जनम् ।
अत्रोत्तमानां हसनकारणान्वेषणादयः ॥
अनुभावा मध्यमानां विमनस्कत्वपूर्वकाः ।
अधमानां च निःश्वासमुखशोषादयो मताः ॥
गतं तेनैव मे चेतः किमत्र करवाण्यहम् ॥ २४ ॥




  1. पुष्पितवल्लीकृतसुरतः.