पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१२०

पुटमेतत् सुपुष्टितम्
१०२
काव्यमाला ।

अरतिः संज्वरः कार्श्यं लज्जात्यागो भ्रमस्तथा ।
ततश्चात्मजिहासा स्युरित्यनङ्गदशा दश ॥
चक्षुःप्रीतिस्तु कथित तदेकालोकने रतिः ।
पश्यन्त्यनिमिषं कान्तमासीच्चित्रार्पितेव सा ।
मनःसङ्गस्तु मनसस्तदेकासक्तता सदा ॥
कुचसंघर्षणाध्वस्तमथ वा बद्धमेतया ।
लावण्याम्भसि मग्नं वा गतं नायाति मे मनः ॥ ४० ॥
संततं तद्गतां चिन्तां संकल्पं ब्रुवते बुधाः ।
दुर्लभो वल्लभो नूनं रागोऽपि मम कोऽप्यसौ ॥
नेक्षे दूती च निपुणा न जाने भवितव्यताम् ॥ ४१ ॥
प्रजागरस्तु चिन्ताभिर्निद्राक्षतिरहर्निशम् ॥
अविनिद्रं सदाम्भोजशोभामेति तदीक्षणम् ।
अरतिस्तु भवेद्द्वेषो हृद्येष्वपि च वस्तुषु ।
चन्द्रं कलयते राधा चक्रवाकीव पावकम् ॥ ४२ ॥
संज्वरस्तनुसंतापभरः स्मरशरोद्भवः ॥
तप्तलोहीयति जलं बालाकरतलं गतम् ।
कार्श्यं तु स्मरसंतापविहिता तनुता तनोः ।
ऊर्मिकां कंकणं तच्च त(म)नुते गदमद्य सा ॥ ४३ ॥
लज्जात्यागस्तु कन्दर्पसंतापेन क्ष(त्र)पाक्षतिः ॥
उल्लङ्घ्य मानिनीधर्मं भणितं राधया तया ॥
भ्रमः स्यादयथाज्ञानं चेतनाचेतनेष्वपि ।
सखीमुखं समालोक्य त्वमित्याभाषते प्रिया ॥ ४४ ॥
आत्मत्यागोद्यमस्त्वात्मजिहासा परिकीर्तिता ॥
प्रविश्य चन्द्रिकाज्वालां पश्यन्तीन्दुं निजास्पृहा ।
प्रलापोन्मादमोहानप्याहुः केचन तदृशाः ।
प्रलापो दयिताश्लिष्टगुणालापो मुहुर्मुहुः ॥