पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१२३

पुटमेतत् सुपुष्टितम्
९.रम्यबिन्दुः]
१०५
मन्दारमरन्दचम्पूः ।

सर्वेन्द्रियाणां विक्षोभः परिपोषो भयस्य वा ॥
भयानकः स तु द्वेधा स्वान्यनिष्ठविभेदतः ।
भयानकस्य वर्णस्तु श्यामो देवो यो मतः ॥
स्वापराधादिसंभूतः स्वनिष्ठः स्याद्भयानकः ।
गोपीगृहेषु कृतमाग उदीक्ष्य माता
मा ताडयत्यतिरुषेति गृहीतशङ्कः ।
वेषं पुपोष कपटज्वरजर्जराङ्गं
निःश्वासकम्पबहुलं किल नन्दसूनुः ॥ ५५ ॥
परकीयविभावैश्च परनिष्ठः परस्य चेत् ॥
वृकोदराननादाजौ सिंहनादे विनिर्गते ।
केचिद्भुवं गताः केचित्कम्पिता दुद्रुवुः परे ॥ ५६ ॥
जुगुप्सायाः परीपोषो यद्वा हृद्येक्षणादिभिः ।
सर्वेन्द्रियाणां संकोचो रसो बीभत्स ईरितः ॥
वर्णो नीलो देवता तु महाकाल उदाहृतः ।
स्वनिष्ठः परनिष्ठश्चेत्येव सोऽपि द्विधा मतः ॥
स्वनिष्ठः स्वकृतस्पर्शादिभ्यः स्वस्य भवेद्यदि ।
मन्दोदरीं समाधातुं व्रजन्रामो रणक्षितौ ।
तादृङ्मज्जादिकं दृष्ट्वा निष्ठीवति विकुञ्चति ॥ ५७ ॥
परनिष्ठः पराहृद्यस्पर्शादिश्रवणादिजः ॥
विष्ठाकूपे निमग्नोऽयमिति निष्ठीवति स्मरन् ।
विस्मयस्य परीपोषो रसः प्रोक्तोऽद्भुतो बुधैः ।
वर्णः पीतो देवता तु परमेष्ठी प्रकीर्तितः ॥
श्यामवर्णं त्वद्भुतस्य केचिदूचुर्विपश्चितः ।
स्वान्यनिष्ठविभेदेन सोऽद्भुतोऽपि द्विधा मतः ॥
स्वनिष्ठः स्वस्य संभूतः स्वकर्मातिशयादिभिः ।
सदान्तःपुरगा राधा तादृश्यपि कुलाङ्गना ।
कथं वशं मया नीतेत्याययौ विस्मयं स्मरन् ॥ ५८ ॥

१४