पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१३४

पुटमेतत् सुपुष्टितम्
११६
काव्यमाला ।

उपमानस्य लोपश्चेत्तत्र स्यादनमोपमा ।
अनायासमभूत्तस्य राधिकायाश्च मेलनम् ।
काकतालवदुद्याने निर्जने यमुनातटे ॥ ३८ ॥
सकृत्पृथग्धर्मिकाभ्यां सोपमा द्विविधा पुनः ॥
तत्र वर्ण्यावर्ण्यगस्य धर्मस्य सकृदेव तु ।
निर्देशे सति तत्राधा स्यात्सकृद्धर्मिका मता ॥
जनाः प्रणम्रशिरसः सेवन्ते राधिकापतिम् ।
साधूनां हृदयानन्दं गुरुं शिष्या यथा तथा ॥ ३९ ॥
उपमानगतस्यास्याप्युपमेयगतस्य च ।
पृथग्धर्मस्य निर्देशे सा पृथग्धर्मिका मता ॥
सा तु वस्तूपमा बिम्बोपमाभेदाद्द्विधा मता ।
वस्तुप्रतिवस्तुभावेन निर्देशे प्रथमा मता ॥
कुचस्थली कुरङ्गाक्ष्या मालया परिलालिता ।
मेरुस्थलीव गङ्गाया धारया समलंकृता ॥ ४० ॥
बिम्बप्रतिबिम्बभावेन निर्देशे त्वपरा मता ।
स्फुरत्कृष्णनखश्रीकमिदं राधाकुचस्थलम् ।
शिवलिङ्गमिवाभाति चन्द्रलेखाविभूषितम् ॥ ४१ ॥
मालारूपोपमा मालारूपेणापि क्वचिद्भवेत् ॥
पद्माति कञ्जकान्ताति कामकान्ताति राधिका ।
पूर्वपूर्वसमानत्वमुत्तरोत्तरवस्तुनः ।
मेखलारचनन्यायाद्यदि स्याद्रशनोपमा ।
सौन्दर्यमिव चातुर्यं चातुर्यमिव धीरता ।
धीरतेव चटूक्तिश्च राधिकायां विराजते ॥ ४२ ॥
[अनन्वयः--]
एकस्यैवोपमानोपमेयत्वे वस्तुनो यदि ।
अनन्वयः स तु द्वेधा सधर्माधर्मभेदतः ॥