पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१४१

पुटमेतत् सुपुष्टितम्
१०.व्यङ्ग्यबिन्दुः ]
१२३
मन्दारमरन्दचम्पूः ।

इवादीनामुपादाने वाच्योत्प्रेक्षेति कथ्यते ।
इव स्वित्किं किमुद्वापि किमु किंनु कथं ननु ॥
मन्ये शङ्के नु हूं प्रादुः प्रायो नूनं खलु ध्रुवम् ।
किमु स्म बत नामाहो उत्प्रेक्षा बोधका इमे ॥
जातिक्रियाद्रव्यगुणभेदाद्वाच्या चतुर्विधा ।
चतुर्विधापि च द्वेधा भावाभावविभेदतः ॥
अष्टधापि पुनस्त्रेधा वस्तुहेतुफलात्मना ।
स्वरूपं च स्वभावश्च वस्त्विमे चैकवाचकाः ॥
वस्तूत्प्रेक्षा द्विधोपात्तानुपात्तहेतुभेदतः ।
गुणक्रियानिमित्तत्वाभ्यामुपात्तनिमित्तकाः ॥
वस्तुहेतुफलोत्प्रेक्षा द्विविधाः परिकीर्तिताः ।
एतादृशी क्रियावस्तूत्प्रेक्षैव द्विविधा पुनः ॥
उक्तानुक्तस्वरूपाभ्यां पुनस्तु सकला अपि ।
द्विधाहेतुफलोत्प्रेक्षाः सिद्धासिद्धविभेदतः ॥
एवं च वाच्योत्प्रेक्षाः स्युश्चतुर्भिरधिकं शतम् ।
प्राचीनानां मते वाच्योत्प्रेक्षाः षण्णवतिः स्मृताः ॥
नवीनाः केचिदूचुस्तां षट्पञ्चाशद्विधामपि ।
इवादिकानुपादाने गम्योत्प्रेक्षां प्रचक्षते ॥
जातिक्रियाद्रव्यगुणभेदात्सापि चतुर्विधा ।
भावाभावविभेदेन चतुर्धापि च सा द्विधा ॥
इमाः सर्वाः पुनस्त्रेधा वस्तुहेतुफलात्मना ।
द्वेधा हेतुफलोत्प्रेक्षे सिद्धासिद्धविभेदतः ॥
गुणक्रियानिमित्तत्वाभ्यां सर्वा द्विविधा इमाः ।
एवं च गम्योत्प्रेक्षायां भेदाश्चाशीतिरीरिताः ।
दिङ्मात्रं ग्रन्थबाहुल्यभीत्योदाह्ऱियते क्रमात् ॥
मन्दीभवन्स्वान्वयजातराघवप्रदत्तलङ्काधिपतित्वमीक्षितुम् ।
विभीषणस्यास्ति न वेति चिन्तया दिशं जगामेव यमस्य भास्करः ॥ ७३ ॥