पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१४५

पुटमेतत् सुपुष्टितम्
१०.व्यङ्ग्यबिन्दुः]
१२७
मन्दारमरन्दचम्पूः ।

मञ्जुलनासा विहिता विटकरपरिलालिता श्यामा ।
तरुणीव तव किरीयं किं तु ग्रहणात्करोति दृक्क्षोभम् ॥ ९१ ॥
प्राचीनम्--
दृढतरनिबद्धमुष्टेः कोशनिषण्णस्य सहजमलिनस्य ।
कृपणस्य कृपाणस्य च केवलमाकारतो भेदः ॥ ९२ ॥
(अथ सहोक्तिः--)
सहार्थेनान्वयः प्रोक्तः सहोक्तिः कविरञ्जकः ।
स्थिते कृष्णधराधीशे याचकानीकमध्ययोः ।
देहीति शब्दो दिक्प्रान्तान्कीर्त्या साकं ययौ रयात् ॥ ९३ ॥
(अथ निदर्शना--)
वाक्यार्थस्योपमानस्याभेदारोपो हि दृश्यते ।
उपमेये च वाक्यार्थे तत्र शुद्धा निदर्शना ॥
बन्धुजीवाधराया यदधरे वीटिकार्पणम् ।
इदं दीपकदम्बेन प्रकटीकरणं रवेः ॥ ९४ ॥
उपमानोपमेयान्यतरस्मिन्कथिता बुधैः ।
तदन्यतरधर्मस्यारोपश्चान्या निदर्शना ॥
कान्ते याते मुखे लीला दृश्यते सा सरोरुहे ।
खञ्जरीटविलासं ते धत्ते नेत्रयुगं सखि ॥ ९५ ॥
सतोऽसतो वाप्यर्थस्य परेषां क्रिययात्मनः ।
निबध्यते बोधनं चेदपरा स्यान्निदर्शना ॥
सुमनःसंगमः पुंसां महोन्नतिषु कारणम् ।
इति ब्रुवंस्तन्तुरल्पोऽप्यभवद्राजमौलिगः ॥ ९६ ॥
हतः शत्रुरिति ज्ञात्वा तेजस्वी न परिभ्रमेत् ।
इत्याजगामान्धकारः पुनरस्तंगते रवौ ॥ ९७ ॥
(अथ विनोक्तिः--)
विना संबन्धिना येन केनचिद्वर्ण्यवस्तुनः ।
अरम्यता रम्यता वा विनोक्तिरिति कथ्यते ॥