पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१५०

पुटमेतत् सुपुष्टितम्
१३२
काव्यमाला ।

(अथ विरोधाभासः--)
आपाततो विरोधश्चेद्विरोधाभास इष्यते ।
जात्यादीनां विरोधाः स्युर्जातिद्रव्यक्रियागुणैः ॥
तस्मादयं दशविधः कथितः श्लेषजीवितः ।
निरूपणं तु जात्यादेः शेषबिन्दौ भविष्यति ॥
[१]ज्जन्तो लोअमिअं राएत्ति जणेहिं सलहणिज्जोसि ।
माहव णिरिव कहं सा रत्ता वि वलक्खिआ जाआ ॥ १२० ॥
सुगमत्वादिहैतेषा दिङ्मात्रमिति दर्शितम् ॥
(अथ विषमम्--)
घटनानर्हयोर्यत्र घटना विषमं मतम् ।
क्वेयं कनकवर्णाङ्गी सुन्दरी कामिनीमणिः ।
क्व पतिस्तादृशो वक्रः कीदृशी घटना विधेः ॥ १२१ ॥
हेतोर्विरूपकार्यस्योत्पत्तिश्च विषमं मतम् ॥
सितान्कटाक्षान्सृजति नेत्रमिन्दीवरप्रभम् ।
इष्टार्थोद्यमतोऽनिष्टप्राप्तिश्च विषमं मतम् ।
मार्ष्टु कलङ्कं शीताशुर्मुखं सोऽजनि सुभ्रुवः ।
तत्रापि तिलकव्याजात्कलङ्कक्लेशमन्वभूत् ॥ १२२ ॥
इष्टार्थोद्यमनाद्यत्र नेष्टानाप्तिश्च केवलम् ।
अनिष्टस्याप्यवाप्तिश्चेदपरं विषमं मतम् ॥
पाञ्चालीसङ्गसंमोदकाङ्क्षया रङ्गमन्दिरम् ।
प्रविष्टः कीचकस्तत्र सद्यो मर्दनमन्वभूत् ॥ १२३ ॥
परानिष्टार्थमुद्योगात्स्वानिष्टाप्तिश्च तन्मतम् ॥
दिधक्षन्हनुमत्पुच्छमन्वभूत्स्वपुरक्षयम् ।
(अथ विशेषोक्तिः---)
विशेषोक्तिरनुत्पत्तिः कार्यस्य सति कारणे ।



  1. 'रञ्जयल्लोकमिम राजेति जनै श्लाघनीयोऽसि ।
    माधवनृप कथ सा रक्तापि वलक्षिता जाता ॥' इति च्छाया.