पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१५२

पुटमेतत् सुपुष्टितम्
१३४
काव्यमाला ।

कार्यं कर्तुं प्रवृत्तस्य तद्विरुद्धकृतिश्च सा ॥
मोहं हर्तुं प्रवृत्तोऽपि बल्लवीर्मोहयत्यसौ ।
(अथ विचित्रम्--)
विचित्रं विपरीतश्चेत्तत्प्रयत्नः फलेच्छया ।
महत्सुखमवाप्तुं ते भवन्ते शैलवासिताम् ॥ १२८ ॥
(अथाधिकम्--)
आधाराधेययोरानुरूप्याभावोऽधिकं द्विधा ॥
पृथुलादपि चाधारादाधेयाक्षेपया स्वतः ।
आधेयाधिक्यकथनमधिकं प्रथमं मतम् ॥
अनन्तेष्वपि वेदेषु न विश्राम्यति ते स्तुतिः ।
विशालादपि चाधेयादाधाराक्षेपया स्वतः ।
आधाराधिक्यकथनं द्वितीयमधिकं मतम् ॥
प्रादेशमात्रे यत्कुक्षौ ब्रह्माण्डानि लुठन्ति हि ॥ १२९ ॥
(अथ समम्--)
समं स्याद्योगकथनं वस्तुनोरनुरूपयोः ।
मिथोऽनुरूपयोः प्रीती राधामाधवयोरभूत् ।
कारणेनानुरूप्यं च कार्यस्यान्यत्समं मतम् ॥
अबलाहननं युक्तं जातिभ्रष्टस्य ते मधो ॥ १३० ॥
अनिष्टमन्तरा स्वेष्टकार्यसिद्धिर्यदा भवेत् ॥
इष्टार्थोद्यमनात्तत्र तृतीयं सममिष्यते ॥
मा रणं कुरु पुत्रेति जनकेन नियोजितः ।
पितुराज्ञामनुल्लङ्घ्य मारणं कृतवान्द्विषाम् ॥ १३१ ॥
(अथ व्याघातः--)
यत्कार्यसाधनत्वेन प्रसिद्धं यज्जगत्तले ।
तत्तद्विरुद्धकार्यस्य येन केनापि साधनम् ॥
क्रियते यदि तत्राद्यो व्याघातः परिकीर्तितः ।