प्रीतिं दत्त्वा सरोजाक्षी जगृहे कामिनो मनः ।
तुलसीमञ्जरीमेकां दत्त्वा भेजुर्हरेः कृपाम् ।
दत्त्वा सुधामुचो वाचः कविर्भेजे कपर्दिकाम् ॥ १४७ ॥
(अथ परिसंख्या--)
एकस्य वस्तुनः प्राप्तिरनेकत्रैकदा यदि ।
निषिध्यैकत्र चान्यत्र परिसंख्या नियन्त्रणम् ॥
सा तु द्विधा मता प्रश्नपूर्वकाप्रश्नपूर्विका ।
निषेधस्यापि शाब्दत्वार्थत्वाभ्यां ते द्विधा पुनः ॥
अश्लिष्टश्लिष्टभेदेन सर्वा अपि पुनर्द्विधाः ।
एवं चाष्टविधा प्रोक्ता परिसंख्या मनीषिभिः ॥
कः कटुभावं भेजे दुर्जननिकरो न पारिभद्रतरुः ।
किं क्रूरं जगति भृशं पतिसुतहीनाङ्गनाहृदयम् ॥ १४८ ॥
हृदयं भगवति सुधियो न तु परतरुणीभकुम्भकुचभारे ।
सुमनोजननिचयानां स्तुतिरपि कमलापतेश्चरण एव ॥ १४९ ॥
कस्योप[१]पत्यभावः स्त्रैणस्य न तु सुधीकदम्बस्य ।
कुत्र च विष[२]महितत्वं कमलाकर एव रामराज्यभरे ॥ १५० ॥
अ[३]विहतवीराभिमता द्युमणिपुरी नापि रामराजपुरी ।
स[४]न्मालागुणभङ्गस्त्व[५]धरप्रीतिः सुरत एव ॥ १५१ ॥
(अथ समुच्चयः--)
गुणक्रियोभयेषां वा यौगपद्यं समुच्चयः ।
माधव तव दयितेयं विरहपरीवाहविप्लुता सुतनुः ।
अलसा मलिना दीना विवशा शुष्का निरीक्षते मार्गम् ॥ १५२ ॥
कि चास्याः शृणु वृत्तं माधव यमुनातटीनिकुञ्जेषु ॥
विलुठति ताम्यति शेते भ्राम्यति नितरां मुहुर्मुहुः श्वसिति ॥ १५३ ॥