पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१६२

पुटमेतत् सुपुष्टितम्
१४४
काव्यमाला ।

मालतीकुसुमामोदबन्धुरैषा वनस्थली ।
न्यसनं प्रकृतार्थानां प्रसिद्धक्रमतो यदि ।
उदिता तत्र विद्वद्भी रत्नावलिरलंकृतिः ॥

गद्यम्--

 मुरारिरयं कृतघनपुष्पमालाविलासः कृतभूभ[१]रणो भूदारो हि[२]रण्यकशिपुक्षेत्रदाता अपहृतब[३]लिपरसंपत्तिः प[४]रशुभोल्लसितः परितोषितज[५]नकतनयो य[६]शोदयादृतवपुः श्रीघ[७]नजनस्तुतः क[८]विकालसद्भूषणकरो माधवो[९]ऽरुणेनाधरबिम्बेन, कलानिधिना मुखेन, सुमङ्गलेन मधुरवचसा, प्रहर्षणेन विभ्रमेण, गुरुणा स्तनभारेण, कविस्तुत्येन शीलेन, मन्देन गमनेन, विकचेन नयनोत्पलयुगलेन, तमोरुचिरेण कचनिचयेनोद्भासमानां रुक्मद्युतिरमणीयां रुक्मिणीमवलोकयामास ।

न्यसनं सह पाठानामक्रमेणापि सा मता ।
गुरुणा स्तनभारेण हासेन श्वेतरोचिषा ।
गमनेन सुमन्देन रेजे ग्रहमयीव सा ॥ १७८ ॥
(अथ पूर्वरूपम्--)
पुनः स्वीयगुणत्यागानन्तरं स्वगुणग्रहः ।
कथ्यते यत्र तत्रोक्ता पूर्वरूपमलंकृतिः ॥
राधिकानासिकामुक्ता लोहिताप्यधरत्विषा ।
पुनः स्वां रुचमानिन्ये सितेन स्मितरोचिषा ॥ १७९ ॥



  1. भरणं पोषण धारण च; एतेन वराहावतारनिष्पत्ति.
  2. सुवर्णभोजनाच्छादनभूमीना दाता, हिरण्यकशिपुनामकदैत्यस्य विदारकः; एतेन नृसिंहावतारनिष्पत्तिः
  3. बलिना परेषाम्, बलिनामकस्य परा; एतेन वामनावतारनिष्पत्ति..
  4. परेण शुभेन उल्लसितः, परशुशस्त्रस्य भया कान्त्योल्लसित; एतेन परशुरामावतारवर्णनम्.
  5. जनकस्तनयश्च, जनकनाम्नस्तनया; एतेन रामावतारनिष्पत्तिः.
  6. यशसा दयया च, यशोदयया वा; एतेन कृष्णावतारवर्णनम्.
  7. श्रिया घनैः पूर्णैर्जनै , श्रीघन इति जनैः स्तुतः; एनेन बुद्धावतारवर्णनम्.
  8. कवीना काले समये दानार्थ सद्भूषणः करो यस्य, कविकैव लसद्भूषण यस्मिस्तादृक्करो यस्य; एतेन कल्क्यवतारवर्णनम्.
  9. अरुणादिपदानां सूर्यादिपरत्वेन सर्वेषामङ्गाना ग्रहमयत्व व्याख्येयम्.