पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१६४

पुटमेतत् सुपुष्टितम्
१४६
काव्यमाला ।

(अथोन्मीलितम्--)
भेदानध्यवसाये च सादृश्यात्सति कारणात् ।
कुतोऽपि हेतोर्भेदस्य स्फूर्तावुन्मीलितं मतम् ॥
बालापादतले सक्तं यावकं सहजारुणे ।
आर्द्रत्वेनैव जानन्ति स्पर्श स्पर्श सखीजनः ॥ १८४ ॥
(अथोत्तरम्---)
गूढाभिप्रायसहितोत्तरमुत्तरमिष्यते ।
तद्द्विधोन्नेयसंबन्धप्रश्नोत्तरविभेदतः ॥
भवने बान्धवाः सन्ति पान्थ किंचिन्न विद्यते ।
गोष्ठीने तमसाक्रान्ते सुखं वससि चेद्वस ॥ १८५ ॥
प्राचीनम्--
कुशलं तस्या जीवति कुशलं पृच्छामि जीवतीत्युक्तम् ।
पुनरपि तदेव कथयसि मृतां नु कथयामि या श्वसिति ॥ १८६ ॥
(अथ सूक्ष्मम्--)
विदग्धमात्रज्ञेयं चेत्सूक्ष्मं साकूतचेष्टितम् ।
पश्यन्त्यां मयि साकूतं सखी गोष्ठीनियन्त्रिता ।
तरलं गोपयामास सस्मितं तरुणीमणिः ॥ १८७ ॥
(अथ भा[१]विकम्--)
प्रत्यक्षत्वेन कथनमतीतार्थस्य भाविकम् ॥
अद्यापि तन्मम दृशोर्धुरि वर्तते य-
द्रात्रौ मयि क्षुतवति क्षितिपालपुत्र्या ।
जीवेति मङ्गलवचः परिहृत्य वेगा-
त्कर्णेऽपि तं कनकपत्त्रमनालपन्त्या ॥ १८८ ॥
द्वितीयं भाविकं भूतं मानसत्वेन वर्ण्यते ।
हृद्यद्यापि वरीवर्ति राधा यदक्रोद्रते ।



  1. 'उन्मीलितोत्तरे सूक्ष्म विशेषो भाविक तथा ।' इत्यलकारोद्देशग्रन्थे तु भाविकात्माविशेषक उक्तः.