पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१६५

पुटमेतत् सुपुष्टितम्
१०.व्यङ्ग्यबिन्दुः]
१४७
मन्दारमरन्दचम्पूः ।

(अथ विशेषकः--)
सदृशानां च वस्तूनां येनकेनापि हेतुना ।
व्यावर्तकविशेषस्य स्फुरणे स्याद्विशेषकः ॥
काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः ।
प्राप्ते वसन्तसमये काकः काकः पिकः पिकः ॥ १८९ ॥
(अथ व्याजोक्तिः--)
यया कयापि हेतूक्त्या प्राप्ताकारस्य गोपनम् ।
स्वस्याथ वा परस्यापि व्याजोक्तिः क्रियते यदि ॥
ओट्ठ[१]म्मि वि त्थणतडम्मि परिक्खदा वि
लालेसि किंत्ति हलिणाछि सुअं सुवंकम् ।
दट्ठूण तुज्झ पइणो हिअअम्मि रोसो
संवड्ढइ प्पअडदो तुइ जालिणित्ति ॥ १९० ॥
(अथ विवृतोक्तिः--)
श्लिष्टं च गुप्तमर्थं तु यद्याविष्कुरुते कविः ।
यथाकथंचित्तत्र स्याद्विवृतोक्तिरलंकृतिः ॥
भ्राम्यति स्फारमुद्याने भ्रमरो रमणादरः ।
सखीसमाजगामेवं वक्ति सा साक्षिसूचनम् ॥ १९१ ॥
(अथ गूढोक्तिः--)
यत्रान्योद्देशकं वाक्यं यदन्यं प्रतिकथ्यते ।
किंचिच्छ्लेषेण चेत्तत्र स्याद्गूढोक्तिलंकृतिः ॥
सदा रामान्तरपृथुलकुचग्रहणोद्यमम् ।
वत्स मा कुरु चौर्येण बली जागर्ति तत्पतिः ॥ १९२ ॥
(अथ युक्तिः--)
यया कयापि क्रियया परेषां वञ्चनं यदि ।
परस्य स्वस्य वा मर्मगुप्त्यै युक्तिरलंकृतिः ॥



  1. 'ओष्ठेऽपि स्तनतटेऽपि परिक्षतापि लालयसि किमिति हरिणाक्षि शुक सुवक्रम् ।
    दृष्ट्वा तव पत्युर्हृदये रोषः सवर्धते प्रकटतस्त्वयि जारिणीति ॥' इति च्छाया.