पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१६६

पुटमेतत् सुपुष्टितम्
१४८
काव्यमाला ।

त्वामालिखन्तीं कञ्जाक्ष ननन्दां वीक्ष्य राधिका ।
अलिखच्चतुराह्नाय कौसुमं कार्मुकं करे ॥ १९३ ॥
(अथ लोकोक्तिः--)
लोकवादानुकरणं लोकोक्तिर्यदि कथ्यते ।
अनुसरति तव ननन्दा नन्दकुमारं परापि सानन्दा ।
तव किं नीरजनयने पश्य मुदोन्मील्य माधवं नयने ॥ १९४ ॥
(अथ छेकोक्तिः--) ।
अभिप्रायविशेषस्य व्यञ्जकत्वं यदा भवेत् ।
लोकोक्तेरेव तत्र स्याच्छेकोक्तिः परिकीर्तिता ॥
पादचार्येव जानीते शिलाशकलमार्दवम् ।
(अथ स्वभावोक्तिः--)
स्वभावोक्तिर्यथा चारु यथावद्वस्तुवर्णनम् ।
अंशुके कुचतटाद्गलितेऽभूत्स्वस्तिकाकलितकान्तकुचान्ता ।
उन्नमय्य चिबुकाञ्चितहस्तं ह्रीनमद्वदनमक्षि चुचुम्ब ॥ १९५ ॥
(अथ वक्रोक्तिः--)
एकार्थेनोक्तवाक्यस्य काक्वा श्लेषेण वान्यथा।
योजनं क्रियते यत्र वक्रोक्तिस्तत्र कीर्तिता ॥
प्राचीनम्--
असमालोच्य कोपस्ते नोचितोऽयमितीरिता ।
नैवोचितोऽयमिति तं ताडयामास मालया ॥ १९६ ॥
तरणि पश्य सुश्रोणि कान्त कुत्रास्ति नौरिह ।
सवितारं प्रिये वच्मि स्वगृहे वर्तते पिता ॥ १९७ ॥
(अथ चित्रम्--)
चित्रं निबध्यते यत्र प्रश्नाभिन्नोत्तरं तदा ।
शालेः का[१]सारवत्युर्वी प[२]थिकस्य हृतं धनम् ।



  1. 'शालेः सारवत्युर्वी का' इति प्रश्ने 'कासारवती' इत्युत्तरम्.
  2. 'कस्य धन पथि हृतम्' इति प्रश्ने 'पथिकस्य' इत्युत्तरम्.