पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१६८

पुटमेतत् सुपुष्टितम्
१५०
काव्यमाला ।

त्वत्प्रतापाग्निना सप्त सागरा अपि शोषिताः ।
पुनस्त्वद्वैरिकान्ताक्षिवारिभिः परिपूरिताः ॥ २०२ ॥
(अथ रसवान्--)
रसो यत्र परस्याङ्गं स्यात्तन्न रसवान्मतः ।
जीयात्स भूदाररूपी महात्मा जगतां पतिः ।
आतपत्रश्रियं धत्ते दंष्ट्राग्रे यस्य मेदिनी ॥ २०३ ॥
भावः परस्य चाङ्गं चेत्प्रेयोऽलंकार इष्यते ॥
कदा मुदा सामिविलोचनान्तं व्यापारयन्तीं कुटिलालकान्ताम् ।
आलिङ्ग्य कान्तां कुचभारतान्ता चुम्बामि बिम्बाधरमम्बुजाक्षीम् ॥ २०४ ॥
(अथोर्जस्वित्--)
रसाभासः परस्याङ्गं चेदूर्जस्विदलंकृतिः ।
स जीयादप्रतिद्वन्द्वो राजा यद्विषदङ्गना ।
आलिङ्गत्यसकृत्प्रेम्णा पुलिन्दं विन्ध्यभूमिषु ॥ २०५ ॥
भावाभासः परस्याङ्गं चेदप्यूर्जस्विदिष्यते ॥
स्वस्ति तेऽस्तु महीपाल वने त्वद्रिपुकामिनी ।
पुलिन्दतरुणान्वीक्ष्य सव्रीडस्मितमातनोत् ॥ २०६ ॥
(अथ समाहितम्--)
भावशान्तिः पराङ्गं चेत्समाहितमलंकृतिः ।
स भूयान्मम रक्षायै यस्य प्रत्यर्थिना मुखे ।
रणाङ्गणे तृणं वीक्ष्य दृक्कोणं शोणिमात्यजत् ॥ २०७ ॥
(अथ भावोदयः--)
भावोदयः पराङ्गं चेद्भावोदय इतीरितः ॥
कटाक्षान्किरति प्रेम्णा सा बाला मयि या पुरा ॥
किमिदं कुचयोरालीत्युक्ता जाता नतानना ॥ २०८ ॥
(अथ भावसधिः--)
भावसंधिः पराङ्गं चेद्भावसंधिरलंकृतिः ।