पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१७२

पुटमेतत् सुपुष्टितम्
१५४
काव्यमाला ।

अनेकालंकृतीनां चेदेकवाचकबद्धता ।
तदैकवाचकानुप्रवेशसंकर इष्यते ।
भुजंगलीलासंतृप्तो नरेन्द्रो दीनहिसकः ।
याच्ञावृत्तिपरो भाति विषवैद्य इव प्रभुः ॥ २२८ ॥

इत्यलंकारप्रकरणम् ।


ध्वनिस्तु लक्षणामूलाभिधामूलभिदा द्विधा ।
तत्राद्ये लक्षणामूले वाच्यं स्यादविवक्षितम् ॥
विवक्षितं चान्यपरमभिधामूलकध्वनौ ।
आद्यस्तु लक्षणामूलो गूढव्यङ्ग्यप्रधानकः ॥
अर्थान्तरे संक्रमिते वाच्येऽत्यन्ततिरस्कृते ।
इति द्विधापि स द्वेधा पदवाक्यगतत्वतः ॥
एवं चतुर्विधः प्रोक्तो लक्षणामूलकध्वनिः ।
वाच्यस्यार्थान्तरत्वेन परिणामो यदा भवेत् ॥
अर्थान्तरे संक्रमितवाच्यमाहुस्तदा ध्वनिम् ।
यस्मिञ्जीवति जीवन्ति बहवः स तु जीवतु ।
अर्थान्तरे संक्रमितवाच्यं चेह पदे भवेत् ।
शृणु मे वचनं वत्स कुरु भक्ति वृषध्वजे ॥ २२९ ॥
अर्थान्तरे संक्रमितवाच्यं वाक्ये भवेदिह ।
वाच्यार्थे त्वन्वयायोग्ये स्यादत्यन्ततिरस्कृतम् ॥
नीलिमालिप्तदिक्प्रान्ताः कान्तादृक्प्रान्तवीचयः ।
इत्यादिषु पदे वाच्यं स्यादत्यन्ततिरस्कृतम् ॥ २३० ॥
धवलिम्ना विलिम्पन्ति यशांसि तव दिक्तटीः ।
इत्यत्र वाक्ये वाच्यं च स्यादत्यन्ततिरस्कृतम् ॥ २३१ ॥
यस्तु वाच्यविवक्षायां गूढव्यङ्ग्यप्रधानकः ।
स विज्ञेयोऽभिधामूलो द्विविधश्चैष कीर्तितः ॥
स संलक्ष्यक्रमव्यङ्ग्यालक्ष्यव्यङ्ग्यक्रमात्मना ।
उक्तो बुधैः स संलक्ष्यक्रमोऽनुरणनोपमः ॥