पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१७४

पुटमेतत् सुपुष्टितम्
१५६
काव्यमाला ।

मन्वते वज्रनिर्घोषं क्ष्वेडितं ते द्विषद्गणाः ।
इत्यलंकारतो वस्तुध्वनिर्वाक्ये प्रकीर्तितः ॥ २३८ ॥
प्राणान्मुञ्चन्ति निशितैस्त्वद्बाणैः सह वैरिणः ।
इत्यलंकारतो वाक्ये विज्ञेयोऽलंकृतिध्वनिः ॥ २३९ ॥
द्विषत्कान्तार्चति ब्रध्नं क्षणदाभावकाङ्क्षया ।
इत्यादिषु पदे ज्ञेयो वस्तुना वस्तुनो ध्वनिः ॥ २४० ॥
अथ कविप्रौढोक्तिसिद्धार्थशक्तिमूलध्वनिर्निरूप्यते--
शत्रुस्त्रैणस्मितज्योत्स्नां निधुनीते भवन्महः ।
इत्यादौ वस्तुना वस्तुध्वनिर्वाक्ये प्रकीर्तितः ॥ २४१ ॥
जयश्रीस्त्वां भजत्याजौ सेनाधूल्यन्धकारिते ।
इत्यादौ कीर्तितो वाक्ये वस्तुनालंकृतिध्वनिः ॥ २४२ ॥
नानावर्णे जगत्पूर्वं त्वत्कृतेरभवद्विभो ।
इत्यादिषु पदे वाच्यो वस्तुना वस्तुनो ध्वनिः ॥ २४३ ॥
अथ कविनिबद्धवक्तृप्रौढोक्तिसिद्धार्थशक्तिमूलध्वनिं ब्रूमः--
प्रेमातिमानतो नश्येत्प्रसीद प्रणते प्रिये ।
इत्यादौ कथितो वाक्ये वस्तुना वस्तुनो ध्वनिः ॥ २४४ ॥
मीलिते स्मरतापेन शठ तस्या दृगम्बुजे ।
अत्र वाक्ये च कथितो वस्तुनालंकृतिध्वनिः ॥ २४५ ॥
नाहं दूती तनोस्तापस्तस्याः कालानलोपमः ।
इति वक्तृवचःसिद्धा(द्धो)ऽलंकृत्या वस्तुनो ध्वनिः ॥ २४६ ॥
प्रवातकदलीवास्ते तमालं वीक्ष्य सा हरौ ।
इति वक्तृवचःसिद्धा(द्धो)ऽलंकृत्यालंकृतिध्वनिः ॥ २४७ ॥
शठाधुना सा तनुते साहसं शशिवीक्षणे ।
अत्र वक्तृवचःसिद्धो वस्तुवस्तुध्वनिः पदे ॥ २४८ ॥
इत्यसावर्थशक्त्युत्थो दिशामात्रमुदाहृतः ।
पदप्रबन्धगत्वेनाप्युदाहार्यो यथोचितम् ॥