स्याद्यत्सुहृदयस्यापि दुःखवेद्यं तदस्फुटम् ।
भूपो गुणाहितप्रीतिर्भुनक्त्यम्बुधिमेखलाम् ॥ २५३ ॥ संदिग्धं तत्तु कथितं वाच्यात्प्राधान्यसंशये ॥
त्वामालोक्य रणे वैरी वीक्षते विजनं हेयम् । अपराङ्गं यदाङ्गे चेद्रसादेस्तु रसादिकम् ।
क्षणध्वस्तखरानीकं जानकी सस्वजे प्रियम् ॥ २५४ ॥ काक्वाक्षिप्तं तु तत्र स्याद्यत्र काक्वा विभाव्यते ।
मन्ये सा सुभगा मत्तो यां त्वमेवानुधावसि । वाच्यान्निकृष्टं व्यङ्ग्यं चेदसुन्दरमितीर्यते ॥
अतपःक्लेशसुकृतं ब्रह्मर्षे तव दर्शनम् ॥ २५५ ॥ चतुर्विधैः संकरैश्च संसृष्ट्या चैकरूपया । पञ्चधा योजने तेषां चत्वारिंशद्विधं च तत् ॥ एवं निरूपिते साङ्गे ध्वन्यलंकारलक्षणे । सन्तो महान्तः क्षाम्यन्तु यत्किंचित्स्खलितं यदि ॥ जलजनिजनिजायाप्रेमपाकेन गोपी- जनमनसिजकेलीलम्पटेऽलंपटेन । गुहपुरनिलयेन प्रोद्धृतो व्यङ्ग्यबिन्दुः सुरकुसुममरन्दे चारुचम्पूप्रबन्धे ॥
|
इति श्रीमद्धटिकाशतशतघण्टाविहिताष्टभाषासरसकविताचरणनिपुणस्य वासुदेवयोगीश्वरस्यान्तेवास्यन्यतमस्य गुहपुरवासशर्मणः कृष्णशर्मणः कवेः कृतौ मन्दारमरन्दे चम्पूप्रबन्धे व्यङ्ग्यबिन्दुर्दशमः समाप्तिमगमत् ।
अत्रान्त्य(न्ति)मे शेषबिन्दावनुक्तान्पूर्वबिन्दुषु । लक्ष्यलक्षणसंयुक्तांस्तत्क्रमेणाभिदध्महे ॥ एकश्चन्द्रार्कविघ्नेशरदशुक्राक्षिभूध्रुवाः । द्वयं द्वन्द्वं युगं युग्मं यमलं यामलं यमम् ॥ युगलं द्वितयं पक्षो नदीकूलं करः कुचः ।
|