पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१८४

पुटमेतत् सुपुष्टितम्
१६६
काव्यमाला ।

अश्विनौ देवता पङ्क्तेस्त्रिष्टुभश्च सुधाकरः ।
जगतीछन्दसः प्रोक्तो देवता नाकनायकः ॥
पृथ्वी विराट्छन्दसः स्यात्ककुदस्तु त्रिविक्रमः ।
ककुद्विराट्छन्दसोस्तु केचिद्देवं हरिं विदुः ॥
कृतिः प्रकृत्याकृती च विकृतिः संकृतिस्तथा ।
अतिकृत्युत्कृती चातिधृतावन्तर्भवन्ति हि ॥

यथा प्राचीनम्--

पान्त्वस्मान्पुरुहूतवैरिबलवन्मातङ्गमाद्यद्धटा-
कुम्भोच्चाद्रिविपाटनाधिकपटुप्रत्येकवज्रायिताः ।
श्रीमत्कण्ठीरवास्यप्रततसुनखरादारितारातिदूर-
प्रध्वस्तध्वान्तशान्तप्रविततमनसा भाविता नाकिवृन्दैः ॥ ६ ॥

 अत्र प्रकृतेरतिधृत्यामन्तर्भावः । एवमन्यत्रोदाहार्यम् । न वैकेनाक्षरेण छन्दांसि विलीयन्ते । न द्वाभ्याम् ॥

इति श्रुत्या गुरुलघुमात्रैकद्वितयेन वा ।
न्यूनेन वाधिकेनापि तेषां छन्दो न भज्यते ।
अलंकारिमते तेन छन्दोभङ्गो भवेद्ध्रुवम् ॥

इति छन्दःप्रकरणम् ।

रसापकर्षहेतुत्वं दोषत्वं परिकीर्तितम् ।
स दोषः शब्दगत्वेनार्थगत्वेन च द्विधा ॥
शब्ददोषो द्विधा प्रोक्तः पदवाक्यविभेदतः ।
तत्र श्रुतिकटुभ्रष्टसंस्कारं चाप्रयुक्तकम् ॥
असमर्थं च निहतानुचितार्थे निरर्थकम् ।
अवाचकं तथाश्लीलं संदिग्धं चाप्रतीतकम् ॥
ग्राम्यगूढार्थनेयार्थान्यथ क्लिष्टाप्रयोजके ।
अविमृष्टविधेयांशं विरुद्धमतिकृत्तथा ॥
एवं च पददोषाः स्युर्बुधैरष्टादशोदिताः ।