पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१९३

पुटमेतत् सुपुष्टितम्
११.शेषबिन्दुः]
१७५
मन्दारमरन्दचम्पूः ।

वस्तुतस्तु कवीनां चेद्धृदयानन्दकारणम् ।
न दुष्टं स्यादन्यथा चेद्दुष्टतां भजति ध्रुवम् ॥
इति काव्यदोषप्रकरणम् ।
ये रसस्याङ्गिनो धर्माः शौर्यादय इव स्थिताः ।
उत्कर्षहेतवस्ते स्यू रचनास्थितयो गुणाः ॥
ओजोमाधुर्यगाम्भीर्यप्रसादश्लेषविस्तराः ।
समता सौकुमार्यं च सौशब्द्यं भाविकं गतिः ॥
अर्थव्यक्तिरुदारत्वं सौक्ष्म्यं कान्तिरुदात्तता ।
प्रेयः प्रौढी रीतिरुक्तिः समितत्वं तथैव च ॥
समाध्यौर्जित्यसंक्षेपास्ते चतुर्विंशतिः स्मृताः ।
दीर्घदीर्घसमासत्वमोजःशब्देन गीयते ॥
तुहिननगतनूजानाथनालीकखेल-
द्रजनिकमनकन्यासारलीलाहसच्छ्रीः ।
प्रणयकुपितकान्ताकान्तनेत्रान्तपाते
सति रतिपतिसूनोः पातु वः सस्मिता वै ॥ ४८ ॥
पृथक्पदत्वं माधुर्यं गाम्भीर्यं ध्वनियुक्तता ।
शीघ्रार्थबोधकत्वं तु प्रसाद इति कथ्यते ॥
मिथः संश्लिष्टपदता श्लेष इत्युच्यते बुधैः ।
विस्तरस्त्वतिविस्तारादुक्तार्थस्य समर्थनम् ॥
अवैषम्यं च समता सौकुमार्यमरूक्षता ।
सुप्तिङ्व्युत्पत्तिसंबन्धः सौशब्द्यमिति कथ्यते ॥
येत्र भाववशाद्वाक्यवृत्तिस्तत्र तु भाविकम् ।
स्वरारोहावरोहाभ्यां रम्यत्वं गतिरिष्यते ॥
अर्थव्यक्तिस्तु संपूर्णस्वरूपस्फुटता मता ।
विकटाक्षरबन्धत्वमुदारत्वमितीष्यते ॥
कान्तिरुज्ज्वलता सौक्ष्म्यमन्तः सोज्ज्वलरूपता ।