पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१९५

पुटमेतत् सुपुष्टितम्
११.शेषबिन्दुः]
१७७
मन्दारमरन्दचम्पूः ।

प्रसादः पदसौकर्यादक्लिष्टत्वान्न भिद्यते ।
श्लेषः कविसंधित्वाभावतो नातिरिच्यते ॥
चित्रार्थत्वात्सौक्ष्म्यगुणस्त्वर्थचित्रान्न भिद्यते ।
विस्तराख्यः काव्यलिङ्गालंकारान्नातिरिच्यते ॥
सौकुमार्य श्रुतिकटुत्वाभावान्नातिरिच्यते ।
गाम्भीर्यं त्वर्थशत्तयुत्थध्वनितो नातिरिच्यते ॥
शृङ्गारे करुणे चापि माधुर्य स्याद्विशेषतः ।
उदारत्वौजसी प्रोक्ते वीरे बीभत्सरौद्रयोः ॥
ओजोगुणस्तु कथितः शृङ्गारेऽप्यद्भुते क्वचित् ।
अन्ये चतुर्गुणाः सर्वरसेष्वपि यथोचितम् ॥
वस्तुतस्तु मतेऽप्येषां गुणानां घटना स्थितेः ।
समाधिसौक्ष्म्यगाम्भीर्यविस्तराः स्युर्गुणा ध्रुवम् ॥

इति गुणप्रकरणम् ।

अकारादिक्षकारान्ता वर्णाः स्युः पदतां गताः ।
पदानि द्विविधानि स्युस्तिङ्सुबन्तविभेदतः ॥
संचयं तिङ्सुबन्तानां वाक्यमाहुर्विपश्चितः ।
शब्दस्तु त्रिविधः शक्तलक्षकव्यञ्जकात्मना ॥
साक्षात्संकेतितं योऽर्थमभिधत्ते स वाचकः ।
भवेल्लाक्षणिकः शब्दो लक्षणायाः समाश्रयः ॥
व्यञ्जकः स भवेच्छब्दो व्यञ्जनायाः समाश्रयः ।
तदर्थोऽपि त्रिधा शक्यलक्ष्यव्यङ्ग्यविभेदतः ॥
तुर्यस्तात्पर्यविषयो वाक्यार्थ इति तार्किकाः ।
अन्ये शक्यं तमप्याहुरपरे लक्ष्यमूचिरे ॥
वाच्यादयस्त्रयोऽप्यर्था मन्मते व्यञ्जका मताः ।
शब्दवृत्तिरिति प्रोक्ता शब्दव्यापाररूपिणी ॥
अभिधा लक्षणा चैव व्यञ्जना चेति सा त्रिधा ॥

२३