पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१९७

पुटमेतत् सुपुष्टितम्
११.शेषबिन्दुः]
१७९
मन्दारमरन्दचम्पूः ।

साक्षी मुकुन्दकेलीनां यमुनायामयं व्रजः ॥ ५१ ॥
स्वसिद्धये पराक्षेपे त्वजहल्लक्षणा मता ।
वीक्ष्यानुद्रवतः कुन्तान्द्रवन्ति च्छत्त्रिणो रणात् ॥
स्वार्थैकदेशवृत्तौ तु जहत्यजहती मता ।
पुष्पितं वनमालोक्य सोऽयं पान्थः स्मराहतः ॥ ५२ ॥
सारोपोपात्तविषयिविषयाभेदबोधिनी ।
सारोपा द्विविधा सा तु गौणी शुद्धेति भेदतः ॥
सादृश्यात्मकसंबन्धरूपा गौणीति कीर्तिता ।
अन्या तदन्यसंबन्धरूपा शुद्धेति कीर्त्यते ॥
मुखेन्दुर्नयनानन्दस्तन्व्या विजयतेतराम् ।
निगीर्य विषयं यत्र विषय्येव निबध्यते ।
तत्र साध्यवसाना स्यात्कविप्रौढोक्तिसंमता ॥
सरोजकाहलीरम्भासैकताकाशभूधरैः ॥ ५३ ॥
शङ्खेन्दुतिमिरैः सृष्टा वल्ली कामिजनोत्सवः ।
संगिरन्ते द्विरेफादौ केचिल्लक्षितलक्षणाम् ॥ ५४ ॥
अत्र व्यङ्ग्यं क्वचिद्रूढमगूढं च क्वचिद्भवेत् ।
फले लाक्षणिकस्यास्य व्यापारो व्यञ्जनेष्यते ॥

अथ व्यञ्जना--

यस्य प्रतीतिमाधातुं लक्षणा समुपास्यते ।
फले शब्दैकगम्येऽत्र व्यञ्जनान्नापरा क्रिया ॥
नाभिधा समयाभावाद्धेत्वभावान्न लक्षणा ।
प्रयोजना(न)विशिष्टस्य लक्षणा तु न युज्यते ॥
लक्ष्याभिधेयाद(भ्याम)न्यद्यतो वाच्यं प्रयोजनम् ।
तस्माल्लक्ष्ये प्रतीते तु पावनत्वादिबोधने ॥
अभिधालक्षणाभिन्ना व्यञ्जनैवात्र कारणम् ।
वाच्यलक्ष्यविभिन्नार्थधीकृद्व्यापृतिरञ्जनम् ॥
सामोदसुमनोजातजुष्टो जयति माधवः ।