पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/२००

पुटमेतत् सुपुष्टितम्
१८२
काव्यमाला ।

फलानि दिश भव्यानि निवेश्य मणिबन्धने ।
बिम्बस्य चुम्बनेनैव सखि लालय मा शुकम् ।
इत्यादिषु च लक्ष्यस्य व्यञ्जकत्वं प्रकीर्तितम् ॥
गच्छ गच्छसि चेत्कान्त वरस्तत्रैव मे भव ।
इत्यादौ व्यञ्जकत्वं च व्यङ्ग्यार्थस्य भवेद्ध्रुवम् ॥
शब्दप्रमाणवेद्योऽर्थो व्यनक्त्यर्थान्तरं यतः ।
अर्थस्य व्यञ्जकत्वे तच्छब्दस्य सहकारिता ॥
इति शब्दार्थप्रकरणम् ।
सा शय्या कीर्तिता मैत्री या पदानां परस्परम् ।
दाता जेता रणे त्राता भीतानां भाति भूपतिः ॥
इति शय्या ।
अर्थगम्भीरिमा पाकः स द्वेधा कविसंमतः ।
द्राक्षापाको नारिकेलपाकश्च प्रस्फुटान्तरौ ॥
द्राक्षापाकः स कथितो बहिरन्तःस्फुरद्रसः ।
अपाङ्गान्प्रेमवाराशितरङ्गान्किरति प्रिया ॥
स नारिकेलपाकः स्यादन्तर्गूढरसोदयः ।
प्राचीनम्--
गाम्भीर्यातिशयेन यस्य जगतां नेत्राणि मानं गता
पत्रं यस्य नवीनतां भजति यत्पद्मेयमासीज्जगत् ।
राजत्केसरितं समुद्रममलं यद्वत्समव्यब्जगुः
शेते यो हि विभावरीशरुचिरः कुर्याच्छमभ्रं शिवः ॥
मधुक्षीरादिपाकान्यप्येवमूह्यानि सूरिभिः ॥
इति पाकप्रकरणम् ।
पात्रे नृणामनीचानां संस्कृतं परिकीर्तितम् ।
लिङ्गिनीमत्त्रिजावेश्यादेवीनां च क्वचित्क्वचित् ॥
स्त्रीणां प्रायः शूरसेनी प्राकृतं मागधी तथा ।
तथैव नीचपात्राणां तत्तद्देशीयभाषणम् ॥